________________
श्री तत्त्वार्थहरि० ७ अध्या०
॥२९३॥
Jain Education International
Co
| शेनापि युज्यत इति, अपुण्योदयादपि क्षयो भवति विभवस्य, दक्षिणोत्तरमथुराधिवासिव णिद्वयप्राप्तिप्रणाशाख्यानकाद्भावनीयः, | तन्नाशे च हृदयातिसारग्रहणीदोपग्रहावेशाः, दौर्बल्यमरणावसानः शारीरो मानसश्च परिक्लेशः, लोभाभिभूतत्वाच्चेत्यादि, लोभक| पायानुरक्तचित्तो लोभाभिभूतः - तृष्णापिशाचिकया वशीकृतस्तद्भावो लोभाभिभूतत्वं तस्माच्चेति, चशब्दः समुच्चयार्थः, इदं कर्त्तव्यमिदं न कर्त्तव्यमिति नापेक्षते नालोचयति, तत्र कर्त्तव्यं कार्यं, यत्र प्रवर्त्तते पुरुषस्तदात्वायत्योः सुखार्थी, तच्च नापेक्षते तृष्णान्धः शुचिकर्मानुष्ठानं, अकर्त्तव्यम् - अकार्यं तत्राप्यनालोच्य प्रवर्त्तते, न प्रत्यवायान्निभालयति, यतः पितरमपि हिनस्ति मातरम - प्युच्छिनत्ति पुत्रमपि व्यापादयति भ्रातरमपि जिघांसति, प्रियां जायामपि ज्ञपयतीत्येवमकार्यमेतदिति नापेक्षते, 'प्रेत्य चे 'त्या| दिना पारलौकिकप्रत्यपायप्रदर्शनं प्रकर्षकाष्ठा प्राप्तस्तृष्णा कषायः कृमिरागानुकारी, तत्परिणामश्चायमात्मा नरकादिषूपपद्यत इत्यागमः, लुब्धोऽयमित्यादिना (१५१ - १३) त्वैहिकमेव प्रत्यपायशेषमाचष्टे, लुब्धस्तृष्णावान् अदाता संचयैकचित्तो न कस्मैचि| दुष्कृतमपि ददातीत्यक्षिलम्भनं निन्द्यते च, जनसमवायेष्वयशो लभत इति प्रतिपादयति, अतः परिग्रहाद् व्युपरमः श्रेयानिति ५ । | किंचान्यदित्यनेन सम्बन्धमाह - हिंसादयः प्रक्रान्ताः किंचानेनापेक्ष्यन्ते, एतेषु हिंसादिष्विदमन्यद्भावयेत्, तदाहदुःखमेव वा ॥ ७-५ ॥ सूत्रम् ॥
वाशब्दो विकल्पार्थः, अपायावद्यदर्शनं भावयेद्दुःखमेव वा भावयेदिति समुच्चयार्थो वाशब्दः, दुःखमेव च भावयेत् अपाया| वद्यदर्शनं चेति, एवकारोपादानात् सुखलवगन्धोऽपि नास्तीति प्रतिपादयति, दुःखमेव केवलं हिंसादयो, न सुखमपीति । । एनमेवार्थ | भाष्येण स्पष्टयति- 'दुःखमेव चेत्यादिना, (१५१--१६) हिंसादिष्विति हिंसानृतस्तेयाब्रह्मपरिग्रहेषु विषयभूयमापत्रेषु दुःख
For Personal & Private Use Only
दुःखहेतुता भावनं
॥२९३॥
www.jainelibrary.org