________________
तत्वार्थहरि०
'पूज्यतमायेति, अयं च पूज्यः अयं च पूज्यः अयं च अतिशयेन पूज्य इति पूज्यतमस्तस्मै, 'भगवते' समग्रैश्वर्यादिगुणयुक्ताय । 'वीरायेति नाम पूर्ववत् , विगतमोहाय' ध्वस्तसंसारवीजायेति भावः ॥ कृत्वा वीराय नमस्कार किमित्याह-'तत्त्वार्थाधिगमारव्य मिति (पृ. ३. २२) तत्त्वम्-अविपरीतोऽर्थः-सुखदुःखहेतुः अधिगम्यतेऽनेनास्मिन्निति तत्वार्थाधिगमः,इयमेवाख्यानाम यस्यासौ तस्वार्थाधिगमारव्यस्तं, 'पहर्थ बहुरर्थोऽस्येति यह्वर्थस्तं, प्रवचनगर्भाभिधानात् सङ्ग्रह-समासं, 'लघुग्रन्थं ' न | सङ्ग्रहान्तरवद् बहुग्रन्थमिति, 'वक्ष्यामि' अभिधास्ये, शिष्यहितं, अल्पग्रन्थेनैव तत्त्वज्ञानकरणात् , 'इम मिति वुद्धी व्यवस्थितस्य परामर्शः, कस्य सङ्ग्रहमित्याह-'अर्हद्वचनैकदेशस्य' अर्हद्वचनं--द्वादशाऊं गणिपिटकं तदेकदेशस्य, न सम्पूर्णस्यैव, अनेन प्रयोजनादित्रयोपन्यासमाह, तत्र तचाधिगमसंग्रहस्य चेहाभिधानेन शिष्यानुग्रहः शास्त्रकर्तुः प्रयोजनं,जीवादि तत्चमभिधेयं,साध्यसाधनलक्षणः संबंधः, एतत् स्वयमेव प्रकटयिष्यति । आह-आस्तां तावदेतत् सहाभिधाने प्रस्तुते किं सर्वस्यैवाहद्वचनस्यायं न क्रियते, येन तदेकदेशस्येति,अनोच्यते,सर्वसहस्य कर्तुमशक्यत्वात् । एतदेवामिधित्सुराह-"महत"इत्यादि (पृ.३-२३) महतो ग्रन्थपरिमाणेनानेकपदकोटयात्मकस्य अतिमहान्-सर्वद्रव्यप्रभूतपर्यायरूपः विषयो-गोचरोऽस्येत्यतिमहाविषयस्तस्य, स एव विशेष्यते, दुर्गमः-दुर्लघ्यः ग्रन्थभाष्ययोः पारो-निष्ठाऽस्येति विग्रहस्तस्य, तत्र ग्रन्था-मूलसूत्राणि भाष्याणि-तदर्थविवरणानि ।। अस्येत्थंभूतस्य 'कः शक्तः' का समर्थः १ 'प्रत्यासं'सङ्ग्रहं 'जिनवचनमहोदधेः' जिनवचनसमुद्रस्य कत्तुं, न कश्चिदपीत्यर्थः, यो ह्येतत् कर्तुमिच्छति स एतदपि कुर्यादित्याह-"शिरसे "त्यादि (पृ. ३. २४) शिरसा-उत्तमाङ्गेन गिरि--पर्वतं विभित्सेत् , उच्चिक्षिप्सेच्च-उत्क्षेप्नुमिच्छेच्च, सः-कश्चिदनिर्दिष्टः 'क्षिति' पृथिवीं 'दोभ्या बाहुभ्यां 'प्रतितीत् ' तरितुमिच्छेच्च, समुद्रं दोा
॥११॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org