SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ तत्वार्थहरि० ॥ १० ॥ Jain Education International विभवतीति विभुः सर्वगतज्ञानात्मा 'स्वयमेव' स्वशक्त्या, नेश्वरादिसामर्थ्येन, किं तत् केवल मित्याह - 'ज्ञानदर्शनं' ज्ञानं च दर्श नंच, एतच्चानन्तत्वात् एतदधिगम्य, कथमित्याह - ' लोकहिताय' लोकहितार्थ, कृतार्थोऽपि मोहजय केवलावास्या 'देशयामास' देशितवान् तीर्थमिदं वक्ष्यमाणम् । तदेवाभिधातुमाह- 'द्विविध' मित्यादि (पृ. ३ - १९) 'द्विविध' मित्यङ्गानङ्गप्रविष्टभेदेन, 'अनेकद्वादशविध' मिति यथार्थमनेकविधमनङ्गप्रविष्टमावश्यकादि द्वादशविधमङ्गप्रविष्टमाचारादि, महान् विषयः सर्व| द्रव्याणि सर्व पर्याया अस्येति महाविषयम्, अमितैः - असंख्यैर्नयैर्गमैः वक्ष्यमाणैर्नयैर्वा युक्तं संयुक्तममितगमयुक्तं, एतदेव विशिष्यते, संसरणं संसार:- नरकादि गमनरूपः स एव प्रचुरभवादर्णवः समुद्र इव संसारार्णवः तस्य पारं परं तीरं तद्गमनाय - तनयनाय तन्नयनार्थ 'दुःखक्षयायाल' मिति, संसारार्णवपारगमनाय यो दुःखक्षयः तस्मै पर्याप्तं, सर्वदुःखक्षयायेत्यर्थः, एतदेव गुणान्तरद्वारेण प्रतिपादयन्नाह - " ग्रन्थार्थे” त्यादि (पृ. ३-२० ) ग्रन्थार्थ वचनपटुभिरिति, पटुशब्दः प्रत्येकमभिसंबध्यते, तन्त्रान्तराण्याश्रित्य | साकल्येन ग्रन्थार्थवचनद क्षैरित्यर्थः एवंभूता अपि कदाचिदप्रयत्नवन्तो भवन्ति अत आह--' प्रयत्नवद्भिरपि' ग्रन्थार्थवचनेषु यत्नपरैरपीति भावः, त एव विशेष्यंते 'वादिभिर्निपुणैः' वादमार्गकुशलैः किमित्याह-अनभिभवनीयम्, अभिभवितुं न शक्यते, | 'अन्यैः' नयान्तराश्रितैरेकान्तवादिभिः, निदर्शनमाह - 'भास्कर इव' आदित्य इव सर्वतेजोभिर्मण्या दिसंबंधिभिः, सति तस्मिंस्तत्तेजसां तत्रैव प्रवेशात् एवं नयान्तराण्यपि सर्ववादपरमेश्वरा नेकान्तवाद प्रवेशानीति भावनीयम् । य एवम्भूतं तीर्थ देशयामास तस्मै किमित्याह - " कृत्वे "त्यादि (पृ. ३. २१) 'कृत्वा 'अभिनिर्वर्त्य त्रिकरणशुद्धम् — आगमोक्तविधिना कायवाङ्मनः करणपरिप्लुतं ' तस्मै' इति 'यः शुभकर्मासेवने त्यादिनोक्तः 'परमर्षये' योगीन्द्राय 'नमस्कार' प्रणामं कृत्वा, परमर्षिरेव विशेष्यते, For Personal & Private Use Only तीर्थस्वरूपं ५ ॥ १० ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy