________________
श्रीतत्त्वार्थहरि०
त्यादि स्फीतं-ऋद्धं अपहाय-त्यक्त्वा राज्यं--जनपदादि,किमित्याह-'शमाय धीमान् प्रवधाज'शमाय तीर्थप्रवर्त्तनेन प्रक्रान्तजगतः धीमान-अतिशयज्ञानवान् ‘प्रवबाज' प्रव्रज्यामभ्युपेतवान् इति, प्रवज्याबहुत्वाद्विशेषामिधानपुरस्सरं विशेपम- वीरवृत्तं भिधित्सुराह-"प्रतिपद्ये" त्यादि (पृ. २-१६) प्रतिपद्य-गृहीत्वा 'अशुभशमनं' अशुभकर्मशमनायेति प्रतिपत्तव्यं, संवेगभावादित्यशुभशमनं 'निःश्रेयससाधनं ' प्रेयःसद्विधिस्थितस्य ध्यानादिभावान् मोक्षसाधकं, किं तदित्याह । -'श्रमणलिङ्ग' श्रमणचिह्न, लोचदेवव्यसंधारणरूपं, भूयश्च 'कृतसामायिकक, ति, कृतं सामायिककर्म येनासौ कुतसामायिककर्मा, अधिकृतसमत्वभावस्थित इत्यर्थः, किमित्याह-हिंसादिनिवृत्तिरूपाण्यर्थतः 'विधिवत् समारोप्य' सिद्धनमस्कारपूर्वकं विधिनाऽऽत्मस्थानि कृत्वा, अङ्गीकृत्येत्यर्थः, एतच्च स्वतीर्थयतिक्रमोपदर्शनपरं, न पुनरत्रायं स्थितक्रमः, यत एवमागमः- "काऊग णमोकार सिद्धाणमभिग्गहं तु सो गिप्पे (हे )। सवं मे अकरणिजं पावंति चरित्तमारूढो ॥१॥" (कृत्वा ! नमस्कार सिद्धानामभिग्रहं तु सोऽग्रहीत् । सर्व ममाकरणीयं पापमिति चारित्रमारूढः॥१॥) भूयश्च प्रतिसमयमप्रमादवृद्धया परमगुणसमन्वितो विहरत्येव भगवान् , तथा चाह-“सम्यक्त्वे" त्यादि,(पृ.३-१७) सम्यक्त्वं क्षायिककल्पं क्षायिकमेव वा,अतो ज्ञानं ? केवलज्ञानवज्यं चतुर्दा,चारित्रं छेदोपस्थाप्यपरिहारविशुद्धिरहितम् ,अवस्थाविशेषभेदेन वृद्धवादः,संक्रो निरुद्धसर्वाश्रवत्वात् कृत्स्नः, तपो बाह्यं षड्विधमपि,आन्तरं तु यथासम्भवं, प्रायः प्रायश्चित्ताद्यभावात् , ध्यानस्य तु भावात् , समाधिः सर्वत्रैकाग्रता, एवमनेन बलेन युक्तः सन् किमित्याह-मोहादीनि निहत्य-प्रक्षपय्य 'अशुभानि' घातिकर्मत्वेन शेषकर्मभ्योऽपि जघन्यानि चत्वारि | कर्माणि--मोहज्ञानदर्शनावरणान्तरायारव्यानि, ततः किमित्याह-"केवले"त्यादि (पृ.३-१८) केवलम्-एक शुद्धं अधिगम्य-प्राप्य,
For Personal Private Use Only
Join Education international
www.jainelibrary.org