________________
श्रीवीरवृत्तं
-
श्रीत हरि०
दाह-'त्रिभिरपि शुद्धर्युका', नैकन द्वाभ्यां वा, निदर्शनमाह-शैत्यद्युतिकान्तिभिरिवेन्दुर्युक्तः, तत्र शैत्यम्-आल्हा- दक द्युतिः-अतीव निर्मलता कान्तिः-मनोहरता ।। अधिकृतदेवताविशेषस्यैव जातस्य यत् स्वरूपं तदनिधित्सुराह-"शुभसारे"त्यादि | (पृ-२-१३) अत्र सच्चादयो विशेष्याः शुभसारा इति विशेषणं, सत्त्वं च संहननं चेत्यादिद्धन्द्वः, तत्र सत्त्वम्-अवैक्लव्यं संहननंशरीरदढिमा वीर्यम्-उत्साहो माहात्म्यं-प्रभुशक्तिः रूप-सुदराङ्गत्वं गुणा-गारपीपदाक्षिण्यादयः,(ते सच्चादयः शुभसा) राः,शुभाःप्रकृतिसुन्दराः स्वरूपेण साराः-प्रधाना हितप्रयोजनत्वेन, सारशब्दः प्राधान्ये, सारोऽयमत्र गृह इति यथा, एभिः शुभसारसच्चादिभियुक्तः-संपन्नः सन् 'जगति' पृथिव्यां 'महावीर इति' सूर वीर विक्रान्तौ इति, कषायादिशत्रुजयात् महाविक्रान्तो महावीर इत्येवं 'त्रिदशैः देवैः 'गुणतः सङ्गमकोपसर्गजनितदुःखसहननिमित्तेन 'कृताभिख्यः अभिख्यातिः अभिख्या एवमिति गौणनाम, कृता-प्रतिष्ठापिता अभिख्याऽस्येति कृताभिख्य इति,स च राजधर्ममनुपाल्य प्रववाज,कुतः अवगम्य तवमित्याह-'खयमेवे'त्यादि (पृ-२-१४) स्वयमेव पूर्वसुचरिताभ्यासाद् उपदेशमन्तरेणैव तदा 'बुद्धतत्वो' अवगतपरमार्थः सन् 'सत्वहिताभ्युद्यताचलितसवः' सच्चहिताय-प्राणिहितार्थमभ्युद्यतं-प्रवृत्तमचलितं-निष्पकम्पं सचम्-उक्तलक्षणं यस्येति विग्रहः,स सच्चानां दुःखबहुत्त्वात् संसारादुद्धरणं न्याय्यं तीर्थप्रवर्त्तनेनेति चिन्तयेत्, 'अभिनन्दितशुभसचः' अभिनन्दितं-उपबृंहितं सच्चार्थप्रवृत्त्या सत्त्वम्-उक्तलक्षणमेव यस्य स तथाविधः, कैरित्याह-सेन्द्रैः, शक्रादिमिर्लोकान्तिकैर्देवैः-सारस्वतादिभिः, एवं बुद्धतच्यो यत् कृतवाँस्तदमिधातुमाह-'जन्मे' त्यादि (पृ-२-९५) 'जन्मजरामरणात जन्मजरामरणैरभिद्रुतं जगत् त्रिभुव-| | नमशरणम्-अत्राणमभिसमीक्ष्य-ज्ञानचक्षुषा दृष्टा निःसारं-निःसुखं कदलीग पमं वा ज्ञात्वा, तथा किं कृतवानित्याह-'स्फीते
न्तयेत्, 'अभिनाकान्तिकैर्देवैः सारा जगत् त्रिभुवः ।।
Jan Education international
www.jainelibrary.org
For Personal Private Use Only