SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ नीतच्चार्थहरि० ।। 6 । Jain Education International मार्थतः निष्ठितार्थोऽपि 'अर्हन्' देवताविशेषः 'तीर्थं प्रवर्तयति' उक्त निर्वचनं प्रवचनं प्रणयति, न च तथाविधकर्मादयेऽप्यस्याकृतकृत्यता, कृतकृत्यस्यैव तत्त्वतः तत्कर्म्मवतस्तथास्वभावत्वाद्, अत्रैव निदर्शनमात्रमभिधातुमाह- 'तत्स्वा भाव्यादेवेत्यादि, (पृ. २- १०) तदेव - प्रकाशनं स्वभावस्तत्स्वभावस्तद्भावस्तत्स्वाभाव्यं तस्मात् तत्स्वाभाव्यादेव, प्रकाशकत्वादेवेत्यर्थः, 'प्रकाशयति' उद्योतयति 'भास्करः' आदित्यः 'यथा लोक' मित्यत्र लोकैकदेशे लोकोपचारः, 'तीर्थप्रवर्त्तनाय' तीर्थम् उक्तलक्षणं तत्प्रणयनार्थ ' प्रवर्त्तते' प्रभवति स्वयमेव, तीर्थकरनामकर्म्मस्वाभाव्यादेव, तत्क्षयायेत्यर्थः, न च तत्कर्म्मक्षपणमात्रताधिकार्य्यतया स्वरसप्रवृत्तिः स्याद्वादिनोऽकृतार्थतादोषायेति भावनीयम् एवं सामान्येन तीर्थकरस्य तीर्थप्रवर्तन प्रयोजनमभिधाय वर्तमानतीर्थाधिपस्तवाभिधित्सया स्वयंभूकल्पना परकुनय व्यपोहेनादित एव तद्गुणान् कथयितुमाह - " यः शुभे" त्यादि (पृ. २- ११) 'य' | इत्युद्देशोऽस्मादेकादश्यामार्यायां तस्मै इति निर्देशापेक्षः, वक्ष्यति 'कृत्वा त्रिकरणशुद्धं तस्मै परमर्षये नमस्कार' मिति, यः किम्भूतः ? इत्याह- 'शुभकर्मासेवनभावितभावः' शुभं कर्म्म — भूतव्रत्यनुकम्पादि वक्ष्यमाणे तस्यासेवनम् — अभ्यासः तेन भावितो वासितः, भावितः अन्तरात्मा यस्येति विग्रहः, कियन्तं कालमित्याह 'भवेध्वनेकेषु'वरबोधिलाभादारभ्य जन्मस्त्रनेकेषु, अन्ते किमित्याह'जज्ञेज्ञा तेक्ष्वाकुषु' जज्ञे जातवान् छ ? - ज्ञाता नाम क्षत्रियविशेषाः तेषामपि विशेषसंज्ञा इक्ष्वाकवस्तेषु, तेऽपि बहव इत्यत आह'सिद्धार्थनरेन्द्र कुलदीपः' सिद्धार्थनामा भगवतः पिता स एव नरेन्द्रस्तस्य कुलं गृहं सन्तानो वा तस्मिन् दीपवद् दीपो बभूवेत्यादिभि (: स्वयंभुवो निरास इति, किम्भूतो जज्ञे ? इत्याह- 'ज्ञानै' रित्यादि (पृ. २- १२) ज्ञानैः पूर्वाधिगतैः-जन्मान्तरावा तैप्रतिपतितैः पुनरनावृत्तैः, ज्ञानानां पंचत्वादाह-मतिश्रुतावधिभिः- वक्ष्यमाणस्वरूपैः, तेपामप्येकैकस्य शुद्धितारतम्य सद्भावा For Personal & Private Use Only तीर्थप्रवृत्ति वीरवृत्तं १० ॥ ७ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy