________________
अर्हतःपूज्यता फलं च
श्रीतत्त्वार्थ ।
'अहनेव' देवताविशेपो, न तथा अन्यः, कुत इत्याह-'उत्तमोत्तम' इति, स यस्मादुत्तमोत्तमः, उत्तमोत्तमत्वं च कृतार्थोऽपि हारि धर्ममुपदिशतीति, 'लोक' इति, सर्वस्मिन्नेव जगति पूजामर्हति, नैकदेशे, केभ्य इत्याह-'देवर्षिनरेन्द्रेभ्यः' इन्द्रशब्दः प्रत्येकम-
मिसम्बध्यते, देवेन्द्रादिभ्यः इत्यर्थः, किंविशिष्टेभ्य ? इत्याह-'पूज्येभ्योऽपि' अर्चनीयेभ्योऽपि अन्यसंचानां, सामान्यदेवादीनां, किमुत शेपेभ्यः?, न हि राजनि समुत्तिष्ठति परिषदुत्थानं प्रति वितर्क इति,वीतरागे तत्कोपप्रसादाभावेनानर्थिका पूजेत्याशङ्कापनोदाय पूजाफलमभिधित्तुराह-'अभ्यर्चनादि' (पृ-२-८) त्यादि, अभ्यर्चनं-पूजनं तस्मात् पुष्पार्चनस्तवादेः, केवामित्याहअर्हता मिति, कर्मणि पष्ठी, अर्हतोऽभ्यच्येत्यर्थः, किमित्याह-'मनःप्रसाद् इति, तथाविधक्लिष्टकर्मविगमात् प्रायः प्रागवस्थातः सुतरां मनः प्रसीदति, 'ततःसमाधिश्च' तस्मात्-मनःप्रसादात् समाधिः-उपप्लवविगमेनैकाग्रतयाऽऽलोचनक्षमत्वं, चशब्दोऽनुक्तसमुच्चये, भवंति हि तस्य शुश्रूयाश्रवणग्रहणेहापोहादिज्ञानधारणातत्चाभिनिवेशा इति, ततः किमित्याहतस्मादपि निःश्रेयसं तस्मादपि-समाध्यादेस्तच्चाभिनिवेशास्तद्गृह(न्तगुणसमुदयात् , निःश्रेयसमिति सर्वक्लेशप्रहाणाख्यं निःश्रेयसं भवति, अतः प्रथमतो हि 'तत्पूजनम्' अर्हत्पूजनं 'न्याय्यं' भगवतः कोपप्रसादाभावेऽप्यग्निचन्द्रचिन्तामण्यादेवि | | तेभ्यस्तत्तत्स्वभावतयोक्तत्वात् फलसिद्धेरिति ॥ आह-अस्त्येतदेवं, यत् पुनरुक्तं कृतार्थोऽपि सन्नुपदिशतीति तदयुक्तं, कृतार्थत्वविरोधात् , नैतदेवं,कारणोपपत्तेः, तदाह-'तीर्थप्रवर्त्तने त्यादि (पृ-२-९) तरन्ति भवसमुद्रमनेनेति तीर्थ-प्रवचनं तस्य प्रवर्त्तनंप्रणयना फलं-प्रयोजनमस्येति विग्रहः, किं तदित्याह-यत् प्रोक्तं कर्म प्रवचने तीर्थकरनाम दर्शनशुद्धयादिनिमित्त, यस्मिन् उपात्ते तीर्थकरोऽयमिति व्यपदिश्यते 'तस्य तीर्थकृनामकर्मण उदयाद्-विपाकात् 'कृतार्थोऽपि' चरमभवकेवलज्ञानावाप्या पर
HINDIMADHIHIRONM
Jon Education roernational
www.jainelibrary.org
For Personal Private Use Only