SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थ हरि० ७ अध्या० DHARY महाव्रतमावना हिंसादिध्वपायावद्यानि | वाच्यानि, त्वगिन्द्रियभेदत्वात् स्तनकलशाडुपन्यास इत्येवं तदालोकनायुपरतिः श्रेयसीति भावयेत् , तथा पूर्वरतानुस्मरणवर्जनं प्रव्रज्यापर्यायात् पूर्वो गृहस्थपर्यायस्तत्र रतं-क्रीडितं विलसितं यदङ्गनाभिः सह तस्यानुस्मरणात् कामाग्निः तत्स्मरणेन्धनानुसन्धानतः संधुक्षते अतस्तद्वर्जनं श्रेय इति भावयेत् ४, तथा प्रणीतरसभोजनवर्जनमिति, प्रणीतो वृष्णः स्निग्धमधुरादिरसः | क्षीरदधिनवनीतसपिडतैलपिशितमधुमद्यापूपादि तदभ्यवहारो भोजनं ततो मेदोमजाशुक्राधुपचयस्तस्मादपि मोहोद्भवः, अतः | प्रणीतरसाम्यवहारो वर्जनीय इत्यात्मानं भावयेत् ब्रह्मचर्यमिच्छन्निति ५। किंचनं-बाह्याभ्यन्तरपरिग्रहः अविद्यमानकिंचनः अकिश्चनः तद्भाव आकिश्चन्यम्-अपरिग्रहिता तद्भावनाः पञ्च, तदभिधित्सयेदमाह-'पश्चाना'मित्यादि, (१५०-७) पश्चानामिन्द्रियाणां अर्थाः-विषयाः स्पर्शादयः पश्चैव तेषां मनोज्ञा-रागहेतवः तेषां मनोज्ञानाम्-इष्टानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ-ग्रहणे सति | गार्थ स्नेहस्तेषु रागपरिणामोऽतस्तद्वर्जनं श्रेयः, तथा अमनोज्ञानाम्-अप्रीतिहेतूनां ग्रहणे द्वेषवर्जन द्वेषः-क्रोधमानपरिणामः तत्त्यागात् पश्चैता भावनाः भाव्यमानाः प्रतिक्षणमाकिंचन्यं परिपूरयन्ति, ममत्वलक्षणो भावतः परिग्रहस्तद्व्यवच्छेदादपरिग्रह इति ॥ किंचान्यदिति सम्बध्नाति, भावनाप्रस्तावेऽन्यदपि मोक्षानुगुणं भावयेदिति वर्त्तते, इतिशब्दोऽप्यर्थे, प्रतिव्रतं पञ्च पश्च भावनाः प्रतिपादिताः, सम्प्रति तु सर्वव्रतसामान्यभावनाः कथ्यन्त इति । हिंसादिष्विहामुत्र चापायावद्यदर्शन मिति ॥ ७-४॥ सूत्रम् ॥ एतद् व्याचष्टे-'हिंसादिष्विति, हिंसादिष्वाश्रवेषु कियत्सु?,पंचस्वित्याह-हिंसानृतस्तेयब्रह्मपरिग्रहेषु आश्रवा उक्तलक्षणास्तेष्वपायदर्शनमवद्यदर्शनं च भावयेत् , इहैवामी प्रत्यवाया हिंसादिषु प्रवृत्तस्य दृश्यन्ते,पापविपाकश्च दारुणोऽमुत्रामुष्मिन् परलोके ॥२८९॥ ॥२८९॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy