SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ மழமையமாக महाव्रतभावनाः समस्तं गृह्णीयादित्येवात्मानं भावयेत् ४ा तथाऽनुज्ञापितपानभोजनमिति पञ्चमी भावना, अनुज्ञापितं-अनुज्ञा प्रापितं-अनुन्नया श्रीतचार्थहरि• IR स्वीकृतं पानभोजनं सूत्रोक्तेन विधिनाऽपचमानकं पाषण्डमनुप्रविश्य व्यपगताङ्गविकारः पिण्डषणोपयुक्तः अकृतकारितानुमत७ अध्या०४ | मतिसृष्टं कल्पनीयमानीय गुरवे निवेद्यालोचनापूर्वकमभ्यनुज्ञातो गुरुणा मण्डल्यामेकको वा भुञ्जीत, अजिञ् पालनेऽभ्यवहारे च |व्याख्येयः, ततश्च यावत्किंचिद्धर्मसाधनमुपकरणमौधिकौपग्रहिकमेदं तत् सर्वमनुज्ञातं गुरुणा बन्दनपुरस्सरं गुरुवचन विधिना परि| भोक्तव्यम् , एवमात्मनि वासनामादधानो नातिक्रमत्यस्तेयत्रतमिति ५॥ अब्रह्मसेवननिवृत्तिः ब्रह्मचर्य तस्यापि पञ्च भावनाः,तयथा |-त्रियो रूढ्या देवमानुषमेदाद्विविधाः, पशुग्रहणात्तिर्यग्जातिपरिग्रहः, तत्र वडवावालेवीगोमहिष्यजातिकादिषु सम्भवति मैथुनम् , |एताश्च सचित्ताः, अचित्ताः स्त्रियः पुस्तलेपचित्रकर्मादिषु बहुप्रकाराः,पण्डकास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः योषास्य| सेवनाभिरताः क्लीबा इति प्रसिद्धाः, कृतद्वन्द्वैरेमिः संसक्तम्-आकुलं शय्यते यत्रास्यते च तच्छयनासन-प्रतिश्रयसंस्तारकासनादि, | तच्च बह्वपायत्वाद्वर्जनीयमित्येवमात्मानं भावयेत् १। तथा स्त्रीपशुपण्डकानां असन्निधानेऽपि रागसंयुक्तः स्त्रीणां कथा स्वीकथा राग| संयुक्तस्य स्त्रीकथा अथवा रागसंयुक्ता चासौ स्त्रीकथा चेति रागानुबन्धिनी देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीला| कटाक्षप्रणयकलहशृङ्गाररसानुविद्धा वात्ययेव चित्तोदधिरवश्यतया विक्षोभमानतनोति तस्माद्वर्जनं श्रेय इति भावयेत् । तथा स्त्रीणां मनोहरेन्द्रियालोकनवर्जन मनोहराणि मानोन्मानलक्षणयुक्तानि दर्शनीयानि मृजावंतीन्द्रियाणि योषितामपूर्वविस्मयरसनि॥२८८॥ R | भरतया विस्फारितलोचनः प्रेक्षते विकचकुवलयविपुलदलच्छविनयनयुगलमस्याः कर्णजाहमकटाक्षमप्यालोकितं झगिति मनसिज ज्वलनमादीपयति, किमुत विकटकटाक्षकवचितम् ?, एवं यथाविभागसमिविष्टावयवानि श्रोत्रघ्राणवदनपयोधरभरजघनस्थलादीनि கை ॥२८८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy