SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि० ७ अध्या० महाव्रतभावनाः | सप्तधा मोहनीयकम्मोदयजनितम् , उदयाच्च तस्यानृतभाषणं सुलभं भवतीत्यमीरुत्वं भावयेद् , अमीरुश्च न जातुचिद्वितथं भाषते, तस्करोऽयं पिशाचो वा मया रजन्यां दृष्ट इति, तस्मानिर्भयवासनाध्यानमात्मनि विधेयमिति ४ा हास्यं हसनमोहोद्भवः परिहा|सः तत्परिणतो अयमात्मा परिहसन् परेण साईमलीकमपि ब्रूयात् , तत्परिजिहीर्पया च हास्यप्रत्याख्यानमभ्युपेयं, एताः पश्चापि भावनाः भावयन् सत्यवतरक्षणक्षमो भवतीति५। तथा अदत्तादानविरतःपंचैव भावनाः, तव्याचिख्यासयाऽऽह-'अस्तेयस्य चे'(१५०-२)त्याधुपन्यस्यति,आलोच्यावग्रहो याचनीयः,स चार्षे पञ्चप्रकारः पठितो देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदेन,अत्र पूर्वः | पूर्वो बाध्य उत्तर उत्तरो बाधक इति संचिंत्य यो यत्र स्वामी स एव याच्यः,अस्वामियाचने तु दोषबाहुल्यमुक्तमार्ष एव, अकाण्डताडवायैहिकमामुष्मिकमदत्तपरिभोगजनितं, तस्मादालोच्यावग्रहो याच्य इत्येवमात्मानं भावयेत् , इत्थं च भावयन्नादत्तादाने प्रवर्तत इति । सकृद्दत्तेऽपि परगृहे स्वामिनो भूयो भूयोऽभीक्ष्णावग्रहयाचनं कार्य, अभीक्ष्णं नित्यं मुहुर्मुहुः पूर्वलब्धपरिग्रहो ग्लानाद्यवस्थासु मूत्रपुरीपोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दादृचित्तपीडापरिहारार्थ याचनीयानि, एवं च याच्यामाचरनादत्तादानजनितेनागसा स्पृश्यते । तथा एतावदित्यवग्रहावधारणं एतत् परिमाणमस्यैतावत् परिमितं सर्वतः क्षेत्रमवग्रहीतव्यं इत्येतदेवावधारणं सर्वतश्च परिणामावधारणं,तदभ्यन्तरवर्तिनीमूलस्थानादिक्रियामासेवमानो न दातुः उपरोधकारी भवति, याच्याकाल एव चानवधारणे विपरिणतिरपि चेतसि स्यावदान्यस्येति, आत्मनोऽपि चादत्तपरिभोगजनितः कर्मबन्ध इति ३। 'समानधार्मिकेभ्य'इत्यादि (१५०-३) धर्म चरन्ति-आसेवन्त इति धार्मिकाः, समाना:-तुल्याः प्रतिपन्नैकशासनाः सम्यक्त्वादिमुक्तिसाधनसमन्विताः साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यः,तदनुज्ञाताद्धि तत्रासनं,अन्यथा स्तेयं स्यात् , तदनुज्ञायां तु प्रतिश्रयादि| மையமாக மாமா ॥२८७॥ ॥२८७|| Jan Education national For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy