SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्तिः मनोगुप्तिः-मनसो रक्षणमा रौद्रध्यानात संरक्षणार्थभेषणासमितिः-समस्तेन्द्रियाणामाने आलोकि श्रीतत्त्वार्थ हरि० ७अध्या० महाव्रतभावना गुप्तिः मनोगुप्तिः-मनसो रक्षणमार्त्तरौद्रध्यानाप्रचारः धर्मध्याने चोपयोगे मनोगुप्तिः । एषणा गवेषणग्रहणग्रासभेदात्रिधा, तत्रा| समितस्य षण्णामपि कायानामुपघातः स्याद् अतस्तत्संरक्षणार्थमेषणासमितिः समस्तेन्द्रियोपयोगलक्षणा ३। आदान-ग्रहणं निक्षेपणं -मोक्षणमौधिकौपग्रहिकभेदस्योपधेरादाननिक्षेपणयोः समितिः-आगमानुसारेण प्रत्युपेक्षणप्रमार्जने ४। आलोकितपानभोजनमिति प्रतिगेहं पात्रमध्यपतितपिण्डश्चक्षुराद्युपयुक्तेन प्रत्युपेक्षणीयः तत्समुत्थागन्तुकसच्चसंरक्षणार्थम् आगत्य च प्रतिश्रयं भूयः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन वल्भनीयं ५। इतिकरणः प्राणवधविरतेर्भावनेयताव्यवस्थापनार्थः, एवमेताः पञ्च भावना मुहुर्मुहुर्भावयन्-वासयन् बहुलीकुर्वन् सकलामहिंसां पातुं प्रत्यलो भवतीति । सम्प्रति | सत्यवचनस्य भावनाः पञ्च प्रतिपादयन्नाह-'सत्यवचनस्ये'त्यादि (१५०-१) सत्यम्-अवितथं सद्भूतार्थप्रतिपत्तिकारि असद्भूतं |च-विपरीतार्थप्रतिपादनं प्राण्युपघातच 'अनुवीची ति देशीवचनमालोचनार्थे वर्तते, भाषणं-वचनस्य प्रवर्त्तनं, अतोऽयमर्थः| समीक्ष्यालोच्य वचनं प्रवर्तयितव्यम् , अनालोचितभाषी कदाचिन् मृषाऽप्यभिदधीत, ततश्चात्मनो लाघववैरपीडाः फलमैहिकं | परसत्त्वोपघातश्च नियत इति, तस्मात् समीक्ष्योदाहरणेनात्मानं भावयन् न मृषावचनजनितेनैनसा संपृच्यते ॥ क्रोधः-कषायवि|शेषो मोहकर्मोदयनिष्पनोऽप्रीतिलक्षणः प्रद्वेषप्रायस्तदुदयाच्च परवान् वक्ता स्वपरनिरपेक्षौ यत्किंचनभाषी मृषापि भाषेत अतः क्रोधस्य प्रत्याख्यान-निवृत्तिरनुत्पादो वा श्रेयानित्यात्मनि भावयेद् , एवं च वासयन् सत्यवादितां न व्यभिचरतीति । लोभः| तृष्णालक्षणः कूटसाक्षित्वादिदोषाणामग्रणीः समस्तव्यसनैकराजा जलनिधिरिव दुर्भरः, कर्मोदयाविर्भूतो रागपरिणामस्तदुदयादपि |वितथभाषी भवति, अतः सत्यव्रतमनुपालयता तदाकारपरिणामः प्रत्याख्येय इति भावनीयं ३। भयशीलो भीलः, तचैहिकादिभेदात् । :॥२८६॥ ॥२८६॥ Ca Jan Education n ational For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy