________________
श्रीतचार्थ
हरि० | ७ अध्या०
महाव्रतमावना:
-
-
न्महाव्रतामिसम्बन्धः, अन्ये तु व्याचक्षते-दूयोरपि व्रतयोन्याय्यः सम्बन्धः, सम्भवति हि श्रावकस्यापि कस्यचिद्यथोक्तं भावनाजालमेवं,एवं तस्य व्याप्तिः स्यात् ,व्यापिन्यश्च व्रतिनो भावना इष्यन्ते, तस्य पञ्चविधस्येति पञ्चप्रकारस्य प्राणातिपातविरत्यादेः स्थैर्यार्थ दाळपादनार्थ स्थिरत्वं प्रयोजनमुद्दिश्य अभ्यस्यन्ते, अनभ्यस्यमानामिर्भावनामिर्मलीमसीभवन्ति अनभस्यमानविद्यावत् | महाव्रतानीति, एकैकस्येति व्रतस्य, सामानाधिकरणेन षष्ठी, न समुदितानां पश्चानामपीति, ननु च पश्च पश्चेति वीप्सा विव|क्षिता अत एकैकस्येति लप्स्यते एव, अन्यथा वीप्सानर्थक्यं स्यादिति, उच्यते, सामान्यविशेषाभ्यां व्याख्यावृमिः प्रतिपद्यतेऽर्थः, पञ्चविधस्य व्रतस्येति सामान्येनोपक्रम्य पुनर्विशेषेणैकैकस्येत्याह, समुदाये मा भूदिति, पञ्चेति वीप्सायां द्विवचनं, अपरे तु सूत्रमधीयते-तत्स्थैर्यार्थ भावनाः पञ्चपञ्चश इति । ते चैवमिदधति-संख्यावाचिनः प्रातिपदिकाद् वीप्सायां द्योत्यायां 'कारकात् शस्प्रत्ययोऽन्यतरस्या'मिति द्वौ द्वौ ददाति द्विशो ददातीति वाक्यं वृत्तिश्च, तदेतदनुपपत्र, यतः शस्प्रत्ययान्तेन व्रतानि भावना वा सम्बध्येरन् ?, यदि व्रतानि ततः षष्ठयन्तेन सम्बन्ध्यानि पश्चानामिति, ततः कारकत्वा(भावात् षष्ठयाः शम्प्रत्ययो न लभ्यते, अथ भावनाभिः सम्बन्धस्ततः पञ्च पञ्च भावना भवन्तीति पञ्चश इति वक्तव्यं, द्वितीयं पंचग्रहणं न कर्त्तव्यं, तत्स्थैर्यार्थ भावनाः पश्चश इति पठितव्यं, एवमुभयथापि न घटते शस्प्रत्ययः, अतस्तत्स्थैर्यार्थ भावनाः पञ्च पञ्चेति न्याय्यं सूत्रं, 'तद्यथे'त्यनेन प्रस्तुतभावनोपन्यासः, अहिंसायास्तावदिति, अहिंसा-प्राणातिपातविरतिः, तावच्छब्दः क्रमावद्योतकः, अस्य प्रथममुच्यते, पश्चात् मृषावादादिविरतेरमिधास्यते, ईरणमीर्या गमनं तत्र समितिः-सङ्गतिः श्रुतरूपेणात्मनः | परिणामः तदुपयोगिता-पुरस्तायुगमात्रया दृष्टया स्थावरजङ्गमानि भूतानि परिवर्जयनप्रमत्त इत्यादिविघिरीर्यासमितिः । मनसो
॥२८५॥
॥२८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org