SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीतच्वार्थ विरतिमेदाः हरि ७ अध्या० तमित्येतानि पञ्च महाब्रतानि भवन्ति, सम्यक्त्वयुक्तानि मूलगुणवाच्यानि, ननु च यथैव मृषादिनिवृत्तिरहिंसाव्रतपालनार्थत्वात् मूलगुणा एवं निशीथभोजनविरतिरपि मूलगुणः स्यात् , उच्यते, अहिंसाव्रतपालनार्थत्वादिति समितिमिरनैकान्तः, अपिच-महाव्रतधारिण एव तन्मूलगुणः, तद्विरहितस्य यस्मात् मूलगुणा एव अपरिपूर्णाः स्युरतो मूलगुणग्रहणे तद्ग्रहणमाक्षिप्तं, यथा च | सर्वव्रतोपकारिराज्यभोजनं तथोपवासादि, अतस्तन्मूलगुणो महाव्रतिनः शेषमुत्तरगुणः, अणुव्रतधारिणस्तूत्तरगुणो निशाभोजनवि| रतिराहारादित्यागादुपवासवत् तप एव तदिति प्रतीतं,कः पुनर्दोषः रात्रिभोजन इति चेत् ,एवं मन्यते-उद्गमादिदोषरहितस्य वासर|| परिगृहीतस्याभ्यवहारेणान्धसो नक्तं न किल दोष इति, एतदयुक्तं, कालातिक्रान्तस्य प्रतिषिद्धत्वात् , गृहीतआनीतालोचितक्षण| विश्रान्तिसमनन्तरमेव च भुजेरभ्यनुज्ञानात् , निशाहिण्डने चेर्यापथविशुद्धरसंमवात् , दायकगमनागमनसस्नेहपाणिभाजनाद्यदर्शनात् , आलोकितपानभोजनासम्भवात् , ज्योत्स्नामणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत्तदप्यसद् , अग्निशस्त्रारम्भनिषेधात् रत्नपरिग्रहाभावात् ज्योत्स्नायाः कादाचित्कत्वात् आगमे निषिद्धत्वात् हिंसादिवदनासेवनीयमेव विभावरीभक्तमिति ॥ उक्तं व्रतं सवि|धानमणु महच्च, तत्र महाव्रतान्यधिकृत्य भावनासूत्रम् तत्स्थै र्यार्थ भावनाः पञ्च ।। ७-३ ॥ सूत्रम् ॥ अणुव्रतस्य चोपरि बन्धवधादिकातिचारपरिहाररूपा वक्ष्यमाणाः अपायावद्यदर्शनादिकाश्च सामान्यरूपाः, महाव्रतं चोपभोगामिलाषिभिधृतिसंहननपरिहाण्या प्रमादबहुलैदरक्षमतस्तत्प्रतिपातपरिहारार्थ भाव्यन्त इति भावनाः, तदित्यनेन पञ्चविधस्येति | सर्वनाम्नाऽनन्तरत्वान् महाव्रतमिति सम्बध्यते,भाष्यकारस्तु यद्यपि सामान्येन व्रतस्येति विवृणोति तथापि तच्छब्दोपादानसामर्थ्या ॥२८४॥ ॥२८४॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy