________________
श्री तत्वार्थहरि०
७ अध्या०
॥२८३ ॥
Jain Education International
देशसर्वतोऽणुमहती ॥ ७-२ ॥ सूत्रम् ॥
देशश्च सर्वं च देशसर्वे ताभ्यां देशसर्वतः, विरामार्थापेक्षा पश्चमी, अणु च महती च अणुमहती, कथं पुनर्विरतिसामान्यमेकं सद् द्विधा मिद्यते, विवक्षावशेन देशसर्वाभिधानाद्वा एकत्वादिविवक्षायामेकवचनादिवत्, हिंसादिविरतिव्रतप्रस्तावाच्च यथाक्रममभिसम्बन्धः, देशसर्वग्रहणं विरत्या सहाभिसम्बध्यते अणुमहग्रहणं व्रतेन, देशतो विरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतं, एनमेव सूत्रार्थ भाष्येण स्पष्टयति 'एभ्य ' इत्यादिना, 'एभ्य' इति (१४९-८) प्रस्तुतानि परामृश्य हिंसादीनि सर्वतो व्यवच्छिन्दन्नाह - एकदेशविर - | तिरणुव्रतमिति सकलप्राणिगणविषया हिंसा, तस्याश्च विरतिः न सर्वस्याः, किन्तु देशत इति, एकदेशग्रहणेनैव स्पष्टयति-न सर्वस्मात् प्राणव्यपरोपणाद् विरतिः, किन्त्वेकदेशात्, स्थूलादित्यर्थः, स्थूलसूक्ष्मप्राणिभेदात् सङ्कल्पजारम्भजभेदाद्वा स्थूलसूक्ष्मत्वं सा चैकदेशाद्विरतिरणुव्रतं स्तोकत्वादुच्यते, स्तोकमल्पमण्विति पर्यायाः, स्वल्पविषयमणुव्रतं, स्थूलात् प्राणातिपाताद् विरभामि, स्थूलान् मृषावादादिति, कूटसाक्ष्यदानादिः स्थूलः, नर्मादिप्रयोगतः सूक्ष्मः, स्थूलादत्तादानादिति, हठहरणादि स्थूलं | यत्रैहिकामुष्मिकाचौर्यदोषा गृहिणां, सूक्ष्मं परिहासतः, परकीय परिलघुतृणकाष्ठादिग्रहणं वा, स्थूलान्मैथुनाद् विरमामीति, स्थूलत्वमेकदेशजनितमत्र प्रतीयते, स्वदारसन्तोषः परदारनिवृत्तिर्वा, स्वदारसन्तुष्टः शेपयोषितो मातृवदनुपश्यति, परदाराभिगमात् निवृत्तः परपरिगृहीतयोषितः परिहरति, अपरिगृहीतवेश्यामभिगच्छति, तथेच्छापरिमाणादन्यतो विरमामीति केचित् महाव| तानुयानात् स्वल्पव्रतत्वाच्चाणुव्रतमिति व्याचक्षते ॥ सम्प्रति महाव्रतव्याचिख्यासया सर्वतो विरतिर्महाव्रतमिति आहसर्वत इति, सर्वस्मात् सूक्ष्मात् स्थूलाच्च प्राणव्यपरोपणाद् विरमामीति, एवं शेषाण्यपि सर्वतो वाच्यानि, महाविषयत्वान्महात्र
For Personal & Private Use Only
विरतिभेदाः
।। २८३ ।।
www.jainelibrary.org