________________
PARI SM
व्रतलक्षणं
श्रीतचार्थ
हरि० ७ अध्या०
अत्राहोक्तं भवतेत्यादिना सम्बभाति भाष्यकारः, सूत्रेऽप्युक्तं षष्ठाध्याये सवेदनीयकाश्रवेषु 'भूतव्रत्यनुकम्पेति, सकलसूत्रोपलक्षणं, अथवा यावत् संबंधोपयोगि तावत एवोपादानं, व्रतीति श्रूयते मत्वर्थीयप्रत्ययान्तः, तत्र किं व्रतं को वा व्रतीति प्रश्नेनोपक्रमते, ननु व्रतप्रश्न एव न्याय्यः, तत्प्रस्तावात् , तत्परिज्ञानातु सत्संबंधे व्रती सुज्ञान एवेति, उच्यते, विशिष्टसम्बन्धख्यापनार्थ व्रतिग्रहणं, वक्ष्यत उपरिष्टान्निःशल्यो व्रती (७-१३) ति, प्राणातिपातादिविरतयो मायादिशल्यविविक्ता व्रतव्यपदेशमश्नुवते, तथाविधव्रतसम्बन्धाच्च व्रतीति, अत्रोच्यत इति व्रतस्वरूपनिर्णयार्थमाह
हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ ७-१ ॥ सूत्रं ॥ ___ व्रतिस्वरूपं चेदमेव भाष्यमनूद्योपरिष्टात् प्रतिपादयिष्यति 'गृहीमस्तावद्वतान्यथ व्रती क' इत्यत्रेति, हिंसादयः कृतद्वन्द्वाः पञ्चम्यन्ताः, पञ्चमी च जुगुप्साविरामप्रमादार्थानामुपसंख्यानादपादानलक्षणा, तां च प्रत्येकं हिंसादय इत्यादिना भाष्येण दर्शयति, | हिंसादयश्च वक्ष्यमाणाः, तत्र कषायादिप्रमादपरिणतस्यात्मनः कर्तुः कायादिकरणव्यापाराद् द्रव्यभावभेदेन प्राणव्यपरोपणं हिंसा, प्रागमिहितसामान्यलक्षणयोगे सति सद्भूतनिहवासद्भूतोद्भावनविपरीतकदुकसावद्यादि मृषावचनं, परपरिगृहीतस्य स्वीकरणमाक्रान्त्या चौर्येण शास्त्रप्रतिषिद्धस्य वा स्तेयं, पूर्वलक्षणयोगान् मोहोदये सति चेतनाचेतनयोरासेवनमब्रम, सचित्ताचित्तमिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परिग्रहः, चशब्दः समुच्चयार्थः, एभ्यो हिंसादिम्पः कायवाङ्मनोभिर्विरतिव्रतं, विरतिनिवृत्तिः, ननु चासूत्रितत्वात् कायादित्रयमनुपादेयं भाष्येण, नायं दोषः, आत्मना हि विरतिः साध्या, सा च करणमवश्यंतयाऽपेक्षते, तच कायायेव योग्यम् , अथवा प्रमत्तयोगादित्यत्र योगग्रहणं लक्षणसूत्रे सर्वव्रतविशेषणार्थ यत् तचेतसि सनिवेश्य विवृतं
SCIEEEEEEEDEO
॥२८॥
॥२८॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org