SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० ६ अध्या० M च स्फुटतरं विभजते-'आत्मपरोभयस्थ'मिति,आत्मस्थमसद्गुणोद्भावनं परस्थं सद्गुणच्छादनं,आत्मपरावेवोभयं तत्र स्थितं वर्त्त-1101 मानं, नीचैरिति नीचं जघन्यं हीनं, गोत्रमिति गूयतेऽमिधीयते आहूयते चानेनेति गोत्रं, यत् काशुभं तनिमित्तीकृत्यामिधा | नीचोच्चताप्रवर्त्तते चण्डालश्वपचमत्स्यबन्धादि तबीचैर्गोत्रं कर्म,अमिसम्बन्धाचशब्दः कुत्साहेतुप्वेव प्रयुज्यते, एवमेते परनिन्दादयो जाति हेतवः कुलरूपबलश्रुताश्वर्यतपोमदपरावज्ञानोत्प्रासनकुत्सनादयश्च नीचैर्गोत्रस्याश्रवा भवन्तीति ।। इदानीमुच्चैर्गोत्राश्रवामिधित्सयेदमाह तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्येति ॥ ६-२५ ॥ सूत्रम् ॥ तदिति सर्वनाम पूर्वप्रकृतापेक्षं,प्राक् प्रकृता नीचैर्गोत्राश्रवाः तेषां विपर्ययो यथाऽमिहितवपरीत्यं परगुणप्रशंसा आत्मनिन्दा च सद्गुणप्रकाशनमसद्गुणच्छादनमप्यात्मोत्कर्षपरिहारार्थ तथा नीचैवृत्तिः नीचैर्वनं विनयप्रवणयाकायचित्तता, उत्सेको गर्वः | श्रुतजात्यादिजनितः नोत्सेकोऽनुत्सेको विजितगर्वता एतौ नीचैर्वृत्त्यनुत्सेको, चशब्दात्तद्विपर्ययश्च, उत्तरस्येति सूत्रक्रमप्रामाण्यादुचैत्रस्याह, इतिशब्दः पदार्थवाचकः, नीचैर्गोत्रमुक्तलक्षणं तस्याश्रवविपर्ययाः परगुणप्रशंसादयः परं चाश्रवद्वयं नीचैवृत्तिरनुत्सेकश्वोच्चैर्गोत्रस्याश्रवा भवन्ति, उच्चैरित्युच्चमुत्कृष्टमिक्ष्वाकुकरि(कुरु)भोजराजन्यादीति ॥ उक्तं गोत्रम् , आश्रवाधिकार ९ एवायमनुप्रवृत्तः, तत्र समस्तकर्मप्रत्यवसाननिर्दिष्टस्यानुग्राहकसुखव्यवच्छेदकृतोऽन्तरायस्य क आश्रव इति ?, उच्यते-- विनकरणमन्तरायस्य ॥६-२६ ॥ सूत्रम् ॥ विनो विघातः प्रतिषेधः सव्याजो निर्व्याजश्च तस्य करणम्-अनुष्ठानं तत्परिणामयोगिनोऽन्तरायामिधानस्य कर्मण आश्रवो ॥२७९॥ भवति, एतदेव भाष्येण स्पष्टयति-दानादीना'मित्यादि(१४८-९)दानमादिर्येषां ते दानादयो-दानलाभभोगोपभोगवीर्याख्याः, ॥२७९॥ Jain Education international For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy