________________
M
श्रीतचार्थ
हरि० ६ अध्या०|
चाश्रवाः
एव श्रुतधरादयो भगवद्भाषितार्थप्रतिपादनपरिणामाः प्रवचनशब्दवाच्यास्तेषु वात्सल्यमुक्तं सङ्ग्रहोपग्रहानुग्रहलक्षणं, इतिशब्दः
जिनस्य आद्यर्थः, विंशतः कारणानां सूत्रकारेण किंचित् सूत्रे किंचिद्भाष्ये किंचिदादिग्रहणात् सिद्धपूजाक्षणलवध्यानभावनाख्यं अनुपात्त
नीचगोमुपयुज्य च वका व्याख्येयम् , इदानीं उपसंहरति-'एते गुणा'इत्यादिना (१४७-१७) एते यथोदिता गुणा दर्शनविशुद्धथा
चस्य दयः आत्मनः परिणामाः समुदिताः प्रत्येकं च तीर्थकरनामकर्मण आश्रवा भवन्ति, न पुनर्नियमोऽस्ति समस्ता एव व्यस्ता एव वा, विकल्पार्थो वाशब्दः, इतिशब्दः तीर्थकरनामकाथवेयवाप्रतिपादनार्थ इति ।। नामानन्तरनिर्देशभाजो गोत्रस्योपादाने किं | निवन्धनमिति, तद्विधा गोत्रं-नीचैरुच्चैश्च, तत्र तावनीचैर्गोत्राश्रवप्रसिद्धयर्थमिदमाह
परात्मनिन्दाप्रशंसे सवसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्येति ॥ ६-२४ ॥ सूत्रम् ॥ एतदेव विघृण्वनाह-'परनिन्दे'त्यादि भाष्यम् (१४८-३) परश्वात्मा च परात्मानौ, निन्दा च प्रशंसा च निन्दाप्रशंसे, यथाक्रमममिसम्बन्धः परात्मनिन्दाप्रशंसे,सन्तोऽसन्तश्च सदसन्तः विद्यमानाश्चाविद्यमानाः ते च ते गुणाश्च सदसद्गुणाः, आच्छादनं | चोद्भावना चाच्छादनोद्भावने, अत्रापि क्रमेणामिसम्बन्धः, सदसद्गुणाच्छादनोद्भावने,चशब्दात् परात्मनिन्दाप्रशंसे समुच्चीयेते,नीचे
गर्गोत्रस्य कर्मण आश्रवा भवन्ति तत्र स्वात्मव्यतिरिक्तः परः तस्य गुणवतोऽपि गुणाच्छादनद्वारेण निन्दा-अपवदनमभू| तानां भूतानां च दोषाणामुद्भावनं, स्वात्मनः प्रशंसनं स्तुतिर्गुणोद्धावनम्-अभूतानां भूतानां च गुणानामात्मनैव प्रख्यापन, सन्तो | गुणा विद्यमानास्तेषां छादनं संवरणं स्थगनं द्वेषात् पृष्टोऽपृष्टो वा नाचष्टे गुणान् सतोऽपि, प्रस्तुतत्वात् परसम्बन्धिगुणगणा-IR ॥२७८॥ च्छादनमेव सम्बन्ध्यं,आत्माऽमिसम्बन्धेनासतामभूतानामेव गुणानामुद्भावनं करोति पृष्टोऽपृष्टो वा प्रख्यापयतीतियावत् , एतदेव
॥२७८॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org