SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ- हरि० ६ अध्या० घातकारी,यथाऽऽह-'श्रुतशीलविनयसंक्षणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहर्तमपि पण्डितो दद्यात् ॥१॥(प्रश.२७)। तमेवंविधं मानं न्यत्कृत्य करणं स्वयमनुष्ठानं श्रद्धावतः कालविनयबहुमानाचासेवनं मूलोत्तरगुणप्रपश्चानुष्ठानं घेति, उपदेश:- तीर्थकत्वा|अन्यस्मै प्रतिपादनं बहुविधविद्वज्जनसमितिषु स्याद्वादन्यायावष्टम्मेन प्रसभमपहृत्य प्रतिभामेकान्तवादिनामर्हत्प्रणीतस्यानवद्य श्रवाः स्य सर्वतोभद्रस्य मार्गस्यैकान्तिकात्यन्तिकनिरतिशयाबाधकल्याणफलस्योः प्रकाशनं प्रभावना, सा खल्वेषा तीर्थकरनामकर्मण | आश्रवः। 'अर्हच्छासने'त्यादि (१४७-१५) वन्दननमस्कारपूजासत्कारार्हा अर्हन्तस्तेषां शासनमुपदेश आगमाख्यस्तदनुष्ठायिनामागमविहितक्रियानुष्ठायिनां श्रुतधराणामित्यनेन स्वयमधिगतज्ञानानामिति प्रतिपादयतीति, परप्रत्ययानुष्ठायित्वं निषेधयति, अधीतप्रवचनार्थो हि विदितोत्सर्गापवादप्रपश्चः स्वातन्त्र्यात् क्रियाप्रवृत्तौ न व्याहन्यते, बालः क्षुल्लकः कारणात् प्रवजितो | जघन्यादिभेदः, जातिश्रुतपर्यायस्थविरास्त्रयः षष्टिवर्षः समवायाङ्गधरो व्रतारोपणोत्तरकालं विंशतिवर्षश्च यथाक्रमं पद्धः, तपो | बाह्यमनशनादि आन्तरं च प्रायश्चित्तादिस्तदस्यास्तीति तपस्वी विचित्रं वा तपः कनकरत्नावल्यादिभेदं वक्ष्यमाणं तद्योगात्तपस्वी, शिक्षत इति शिक्षः शिक्ष एव शैक्षः, स्वार्थे प्राज्ञादिवत् , शिक्षणशीलो वा छात्रादिपाठाण्णः प्रत्ययः शैक्षः, सूत्राधिगमेऽभियुक्तो, | यथाविहितकालमध्येतव्ये श्रोतव्ये वाऽभ्युद्यत इत्यर्थः, ग्लानो मन्दपाटवः सव्याधिकत्वाद्भक्तपानाद्यन्वेपणे न प्रत्यलः, आदि| ग्रहणात् कुलगणसमनोज्ञपरिग्रहः, चशब्दः समुच्चये, श्रुतधराणां बालादीनां च संग्रहादिकारित्वं, तत्र संग्रहः परिग्रहणमुपसंप| दालोचनापूर्वकं संयमानुष्ठानश्रुताध्ययनचोदनार्थ,उपग्रहो वखपात्रोत्पादनबहुगुणक्षेत्राक्रान्तिलक्षणः,अनुग्रहो भक्तपानयथायो |॥२७७॥ | ग्यवसतिप्रदानादिलक्षणः एतत् करोति तच्छीलश्च तद्भावः सञ्चहोपग्रहानुकारितत्वं तत्परिणामितेतियावत् , प्रवक्तीति प्रवचनं अत ॥२७७|| Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy