________________
श्रीतवार्थ
हरि० ६ अध्या०
श्रवाः
एतत्करणं च, एतद्यथासंख्यमेव, प्रायः श्रावकादेवैयावृत्त्याकरणात् , समाधिकरणं तु सर्वविषयमेव तथाऽधिकरणाद्यकरणेन, एवं अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिरिति,इहार्हन्तः-तीर्थकराःतेषु अर्हत्सु ज्ञानादिपंचविधा
0 तीर्थकृत्त्वाचाराचरणादाचार्यास्तेषु, बहु श्रुतं येषां ते बहुश्रुताः-प्रकृष्टश्रुतधराः उपाध्याया इत्यर्थः तेषु, प्रोच्यन्तेऽनेन जीवादयः पदार्था| इति प्रवचनम्-आगमस्तस्मिंश्च, किमित्याह-परमः-प्रकृष्टो भावः-चित्तपरिणामः तस्य विशुद्धिः-औचित्यप्रवृत्त्या निर्मलता तयुक्ता भक्तिः, औचित्येन बाह्यसेवा इत्यर्थः, आयतनगमनधर्मश्रवणसिद्धान्तलेखनादिरूपा, तथा सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्यापरिहाणिरिति, इहारक्तद्विष्टः समः तस्यायः-प्राप्तिः स प्रयोजनमस्येति सामायिक-सकलसावद्ययोगविरतिलक्षणं प्रतिक्रमणादि तदादिर्येषां आवश्यकानां तानि सामायिकादीनि तेपां सामायिकादीनामावश्यकानाम्-अहोरात्राम्यन्तरे कर्तव्यान्यावश्यकानि-अवश्यंतयाऽनुष्ठेयानि, तानि च सप्तदशविधानसंयमविषयव्यापाररूपत्वादनेकप्रकाराणि इच्छामिथ्यातथाऽऽकारादीनि तेषां भावतोऽनुष्ठानस्यापरिहाणिः, भावत इति तदुपयोगानन्यत्वकथनं, अनुपयुक्तस्य हि सर्वक्रियानुष्ठानं द्रव्यमात्रत्वात् शुभबन्धनिर्जराफलशून्यं प्रवचने अवघुष्यते तत् सद्भावावहितचेतसो यदनुष्ठानकरणं तस्यापरिहाणिः-यथा|विहितकालासेवनमन्यूनातिरिक्ततयेत्येवमेषा आवश्यकापरिहाणिस्तीर्थकरनामकर्मण आश्रवो भवति, 'सम्यग्दर्शने 'त्यादि, (१४७-१४) तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं सकलगुणाधारः तदादिर्यस्यासौ तदादिः तस्य सम्यग्दर्शनादेर्मोक्षमार्गस्य सकलकर्मक्षयोत्तरकालमात्मनः स्वात्मन्यवस्थानं मोक्षस्तस्य मार्गः-पन्थाः प्राप्युपायः सम्यग्दर्शनज्ञानक्रियालक्षणस्तस्य प्रभावना प्रख्यापन प्रकाशनं, केन प्रकारेणेत्याह-निहत्य मानं करणोपदेशाभ्यामिति,मानोऽहकारः,सच जात्यादिस्थानोद्भूतः श्रेयोवि
॥२७६॥
॥२७६॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org