SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ तीर्थकृत्वा हरि० श्रवाः भेदाविशेषेऽपि तथामव्यत्वलक्षणोत्तमस्वभावभेदात् , कैषेत्याह-दर्शनविशुद्धिरिति, सम्यग्दर्शननिर्मलता शङ्कायपायाभावेन, श्रीतच्चार्थ सम्यग्दर्शनस्थिरतेत्यर्थः, तीर्थकरनाम्नः आश्रवो भवतीति सम्बन्धः, तथा विनयसम्पन्नता चेति विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः-ज्ञानदर्शनचारित्रोपचारभेदाच्चतुर्दा, तत्र ज्ञानविनयः कालबहुमानोपधानादि, दर्शनविनयो निःशङ्कनिःकासादिभेदः, ६ अध्या० चरणविनयः समितिगुप्तिप्रधानः, उपचारविनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिभेदः, एतत्संपनतेति, तथाऽतिगाम्भीर्यादेतत्| सम्भृततेत्यर्थः, चः समुच्चये, तथा शीलबतेप्वात्यन्तिको भृशमप्रमादोऽनतिचार इति, इह शीलमुत्तरगुणाः पिण्डविशुIRI यादयः, मुमुक्षोः समाधिहेतुत्वात् , प्रतग्रहणात् पञ्च महाव्रतानि रात्रिभोजनविरतिपर्यन्तान्युच्यन्ते, शीलानि च व्रतानि च शील व्रतानि तेष्विति-तद्विषयः आत्यन्तिकोऽत्यन्तभवः असावपि भृशम्-अत्यर्थ, क एवंभूत इत्याह-अप्रमादः, कषायादिनिद्रा|विकथादिलक्षणः प्रमादः, अयमेवानतिचारः स्वकीयागमानतिक्रम इत्यर्थः, अभीक्ष्णं मुहुर्मुहुः प्रतिक्षणं ज्ञानं द्वादशाङ्गं प्रवचनं प्रदीपाङ्कुशप्रासादप्लवस्थानीयं, तत्रोपयोगः प्रणिधानं सूत्रार्थोभयविषयः आत्मनो व्यापारस्तत्परिणामितेति, संवेगश्चेति अभीक्ष्णमिति प्रवर्त्तते, संवेजनं संवेगः-संसारभीत्या तद्विचलनपरिणामः,चः समुच्चये, तथा यथाशक्ति त्यागेति इह शक्तिः| सामर्थ्य यथाऽनुरूपा शक्तिर्यथाशक्ति तत्पूर्वकस्य त्यागो न्यायार्जितस्य दानं पात्रे यो निसर्गः तथा तपश्चेति कर्मणः तापना च्छोषणात्तप इति, तद्विधा-बाह्याभ्यन्तरभेदात् , बाह्यमनशनादि इतरत् प्रायश्चित्तादि, एतद्द्वयं यथाशक्तीत्यभिसम्बध्यते, तथा ॥२७॥ | सङ्घस्य साधूनां च समाधिवैयावृत्त्यकरणमिति, तत्र संघो ज्ञानाद्याधारः साध्वादिसमूहस्तस्य समाधिः-स्वस्थता एतत्करणं साधवः-प्रव्रजिता एव, तेषां च किमित्याह-यावृत्त्यकरणं व्यावृत्तिः-तत्कार्यानुष्ठानप्रवणता तस्या भावो वैयावृत्यं, | ॥२७५।। Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy