________________
श्रीतत्त्वार्थ
हरि० ६ अध्या०
'अत्राहे'त्यादि सम्बन्धग्रन्थः, अत्र आश्रवाधिकार एव पर आह-अथ नाम्नः कर्मणः क आश्रव इति, अनोच्यते समाधिः-IRI
शुभाशुभ. योगवक्रता विसंवादनं चाशुभस्य नाम्न इति ॥६-२१ ॥ सूत्रम् ॥ .
नामाश्रवाः एतद् व्याचष्टे-'काये'त्यादिना (१४६-१७) कायवाङ्मनोयोर्गानां प्रागुक्तानां वक्रता मायाव्यवहारः तथाऽज्ञानादिक्रिया विसंवादनं च तत्तत्प्रतिज्ञाताकरणं, चशब्द उभयविशेपसमुच्चयार्थः, अधार्मिकदर्शनसंभ्रमादि च, किमित्याह-अशुभस्य नाम्नो नरकगत्यादेश्चतुस्त्रिंशद्भेदस्य कर्मण आश्रवो भवति उपादानद्वारमित्यर्थः॥
विपरीतं शुभस्येति ॥६-२२॥ सूत्रम् ॥ एतद् व्याचष्टे-'एतदुभय'मित्यादिना (१४७-२) एतदुभयमनन्तरसूत्रोक्तं विपरीतमिति कायवाङ्मनोयोगावक्रता अवि| संवादनं चेत्येवं धार्मिकदर्शनसम्भ्रमादि च, किमित्याह-शुभस्य नाम्नो मनुष्यगत्यादेः सप्तत्रिंशद्भेदस्याश्रवो भवतीति समानं पूर्वेण । किंचान्यदित्यनेन सम्बन्धमाहदर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी संघसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्ययहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्ग
प्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्येति ॥ ६-२३ ॥ सूत्रम् ॥ सामान्येन शुभनामकश्रिवामिधानेऽपि अचिन्त्यानुपमशक्तिप्रभावस्य तीर्थकृतस्तन्नामकश्रिवाभिधानमिति सूत्रसमुदा- ॥२७४॥ यार्थः । अवयवार्थ त्वाह-'परमप्रकृष्टा दर्शनविशुद्धिरित्यादिना (१४७-९) परमेत्यतिशयेन प्रकृष्टा पर्यन्तवर्तिनी ग्रन्थि
॥२७४॥
Join Education International
For Personal & Private Use Only
www.jainelibrary.org