________________
श्री तत्वार्थ हरि०
६ अध्या०
॥२७३॥
Jain Education International
आश्रव इति, अन्रोच्यते, अत्र पृष्टेऽभिधीयते
सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्येति ॥ ६- २० ।। सूत्रम् ॥
एतद् व्याचष्टे - 'संयम' इत्यादि (१४६-७), तत्र संयमनं संयमः - विषयकषाययोरुपरमः, विरतिः सम्यग्ज्ञानपूर्विका प्राणातिपातादिनिवृत्तिः, नियमो व्रतमित्यनर्थान्तरं एकार्थता रागः संज्वलनकपायोऽर्थतः सह रागेण सरागः तस्य संयमो व्रतं, एतच्च स्वरूपतः किंभूतमित्याह-हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतमिति वक्ष्यते सप्तमेऽध्याये, एवं संयमासंयमः क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिरित्येवंरूपः, अस्य पर्यायानाह - देश विरतिः - स्थूलप्राणातिपातादिनिवृत्तिः सर्वविरतेः सर्वप्राणातिपातादिनिवृत्तिरूपायाः सकाशात् देशत्वात्, अणुव्रतं महाव्रतापेक्षया इत्येवमेकोऽयमर्थः, एतं संयमासंयमं 'देशसर्वतोऽणुमहती ' विरतिरित्येवं वक्ष्यन्ते - भणिष्यन्ति सप्तमेऽध्याये, 'अकामनिर्जरे' त्यादि निर्जरा-कर्म्म पुद्गलशाटः न कामः - अपेक्षापूर्वकारिता यत्रानुष्ठाने साकामनिर्जरा, अबुद्धिपूर्वेत्यर्थः, सा पराधीनतया चारकादिवासेन धावनाद्यकरणतः प्राणातिपाताद्यकरणेन तथा अनु| रोधत्वाद्दाक्षिण्यादित्यर्थः, कस्मिँश्चिद्विशोषणं कुर्वन्ति अन्यभक्ता इत्यादि, एतदाह- अकुशल निवृत्तिः धावनाद्यकरणेन आहारादिनिरोधश्च पित्राद्यनुरोधेनेति, बालतप इति द्वाभ्यामाकलितो बालः रागद्वेषाभ्यामिति एतत्पर्यायानाह - बालो मूढः अतत्त्वाभिनिविष्ट इत्यनर्थान्तरमेवमेकोऽर्थः, तस्य बालस्य तपो बालतपः तच्चाभिप्रवेशनमिति, मौढ्यादनौ धर्माय | पतनं मरुत्प्रपातो भृग्वादिपतनं जलप्रवेशो जले निमञ्जनं आदिशब्दादुद्वहनगृधभक्षणादिग्रहः तदेवमुक्तनीत्या सरागसंयमः संयमासंयमादीनि चोक्तलक्षणानि, चः समुच्चये, देवस्यायुषः प्राग् निरूपितशब्दार्थस्य आश्रवा भवन्तीति समानं पूर्वेण ।
For Personal & Private Use Only
देवायुरा
श्रवाः
॥ २७३॥
www.jainelibrary.org