________________
श्रीतचार्थ
हरि० ६ अध्या०
आयु. राश्रवाः
व्यापारः तद्भावो बह्वारम्भता, एवं परिगृह्यत इति परिग्रहः-द्विपदादिः बहुधासौ विचित्रजातिभेदेन गवादिना परिप्रदश्चेति समासः तद्भावो बहुपरिग्रहत्वं,x चशब्दात् कुणिमाहारपश्चेन्द्रियवधादिग्रहः, यच्चोक्तं-"चउहिं ठाणेहिं जीवा नरयं गच्छंति, तंजहा-महारं| भयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेण मित्यादि:" तदाह-नारकस्यायुष आश्रवा भवन्तीति ॥
माया तैर्यग्योनस्येति ॥ ६-१७॥ सूत्रम् ।। एतद् व्याचष्टे 'मायेत्यादिना (१४५-१०) माया निकृतिः शाव्यमिति पर्यायाः,सर्वविषयत्यैव गृह्यते, अविशेषेण लौकिकलोकोत्तरेषु व्यवहारेषु, सा तैर्यग्योनस्यायुषः कर्मणः आश्रवो भवति प्रवेश मार्गो जायते,तद्वारेण तद्भावादिति ॥ एवम्
अल्पारम्भपरिग्रहत्वं स्वभावमार्दवमा(वा)र्जवं च मानुषस्येति ।। ६-१८ ॥ सूत्रम् ॥ एतद् व्याचष्टे-'अल्पारम्भपरिग्रहत्व'मित्यादिना (१४५-१३) अल्पौ-स्तोको आरम्भपरिग्रही पूर्वोक्तो तयोर्भावः अल्पा| रम्भपरिग्रहत्वं, असदिच्छान्यावृत्त्या, स्वभावमादवार्जवमिति सहज माईवम्-अकृत्रिमं प्रकृत्यैव जात्यादिमदस्थानेष्वनुद्धतत्त्वं एवं स्वभावार्जवं प्रकृत्यैवार्जवं, चशब्दात् प्रकृतिभद्रतादयो गृह्यन्ते, मानुषस्यायुषः आश्रवा भवन्तीति पूर्ववत् ।
निःशीलवतत्वं च सर्वेषामिति ।। ६-१९ ॥ सूत्रं ॥ निःशीलतां व्याचष्टे-निश्शीलवतत्वं शीलवतं प्राणातिपातनिवृत्यादि तदभावोऽनिवृत्तत्वं च,एवं भावप्रत्ययः प्रत्येकममिसम्ब| ध्यते, सर्वेषामित्यनन्तरोदितानां नारकतर्यग्योनिमानुषाणां यदायुस्तस्यायुषः आश्रवो भवति, चशब्दार्थ व्याचष्टे-'यथोक्तानि चेति प्रत्येकसूत्रेषु बहारम्भपरिग्रहादीनीति ॥ 'अत्रे त्यादिसम्बन्धग्रन्थः, अथेति प्रश्ने देवानामिदं देवमायुस्तस्य दैवस्यायुषः क
॥२७२।।
॥२७२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org