SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि० ६ अध्या० ॥२७१ ॥ Jain Education International भवतीति व्याख्यातमेव ॥ चारित्रमोहाश्रवानाह कषायोदयात्तीव्रात्मपरिणामचारित्रमोहस्य इति ।। ६-१५ ।। सूत्रम् ।। समुदायार्थः प्रकटः ।। अवयवार्थ स्वाह- 'कषाये' त्यादिना (१४५-६) कषायाः - क्रोधादयः तदुदयात् सामान्येन तीव्रो- रौद्रः आत्मपरिणामः आत्मपरिणामविशेषः चारित्रमोहस्याश्रवो भवति, विशेषतस्तु शब्दादिविषयेषु गार्द्धार्थमीर्ष्यालुत्वमनृतवादित्वं | वक्रता परदाराभिप्रियता स्त्रीवेदबन्धहेतवः, ऋजुसमाचारता मन्द क्रोधकषायादिता स्वदाररतिप्रियता अनीर्ष्यालुत्वं पुरुषवेदबन्धहेतवः, | तीव्रक्रोधादिना पशूनां बन्धलक्षणमुण्डनरतित्वं स्त्रीपुरुषेष्वनङ्गसाधनशीलता शीलगुणव्रतधारि [ता] पाखण्डयोषित्सु व्यभिचारका| रिता तीव्रविषयानुसंगिता च नपुंसक वेद बन्धहेतवः, उत्प्रासनदीनाभिलापकन्दर्पोपहसनबहुप्रलापहासशीलता हास्यवेदनीयस्याश्रवः, स्वशोकोत्पादशोचनपरदुःखाधिकरणशोकमूकताभिनन्दिता शोकमोहनीयस्य, विचित्रपरिपीडनपरचित्तावर्जनबहुविधपीडाभावदे| शाद्यौत्सुक्यप्रीतिसंजननादी रतिमोहनीयस्य, परराजप्रादुर्भावनं रतिविनाशः पापशीलता अकुशलक्रिया प्रोत्साहनासूयादयस्त्वर|तिवेदनीयस्य, स्वयम्भयपरिणामपराभवोत्पादननिर्दयत्वशसनादीनि भयवेदनीयस्य, सद्धर्मप्रसक्तचतुर्वर्णशिष्टवर्गकुशल क्रियाचार| प्रवणजुगुप्सापरिवादनशीलत्वादयो जुगुप्साऽऽश्रवा भवन्तीति, स्वपरकषायोदीरणा च कषायस्येत्याचार्याः । अधुना आयुष आश्रवा उच्यन्ते तच नारकादिभेदाच्चतुर्देत्याह बहारम्भपरिग्रहत्वं च नारकस्यायुष इति ॥ ६-१६ ।। सूत्रम् ।। एतद् व्याचष्टे - 'बहारम्भे' त्यादिना (१४५-८) बहुः - प्रभृतो वाङ्मनः काय भेदैः आरम्भणमारम्भः प्राणातिपातहेतुर्लाङ्गलादि For Personal & Private Use Only चारित्रमोहस्य नरकायुषः आश्रवाः ॥२७१ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy