________________
श्रीतत्वार्थ
हरि० ६ अध्या०
दर्शनमोहाश्रवाः
लिङ्गस्था अलिङ्गस्था वा तेषु, अनगारेषु च तद्विपरीतेषु गृहव्यापारविरतेष्वित्यर्थः, अत एवाह-वतिषु प्राणातिपातादिविरतिमत्सु अनुकम्पाविशेष इत्यतिशयवत्यनुकम्पा, तथा दानं सर्वेष्वेतेषु स्वस्याहारादेः अतिसर्जनलक्षणं, एवं सरागसंयमः मूलगुणोत्तरगुणसम्पद् लोभायुदयवान् प्राणवधाधुपरमः, एवं संयमासंयमः स्थूलप्राणातिपातादिनिवृत्तिरूपः,तथा अकामनिर्जरा कुतश्चित् पारतन्त्र्यादुपभोगनिरोधरूपा तथा पालनाया अयोगः,अज्ञानतपो बालतपस्विनस्तपो यत् योगः व्यापारः पञ्चायाद्य|नुष्ठानलक्षणः प्रवचनेऽपि शास्त्रवाधाप्रवृत्तेः एवं क्षान्तिः उपकार्यादिभेदाव क्रोधनिवृत्तिः, एवं शौचं शुचिभावः शुचिकर्म वा, |एतल्लोभोपशमलक्षणं, परमत्र, पूतोदकांगप्रक्षालनं त्वपरमिति,इतिशब्दः प्रकारार्थः, एवंप्रकारा अन्येऽपि सद्वेद्यस्याश्रवा भवन्तीति समानं पूर्वेण ॥ दर्शनमोहाश्रवानाह
केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य इति ॥६-१४ ॥ सूत्रम् ॥ ४ा केवल्यादिनिन्दादि दर्शनमोहस्याश्रवो भवतीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'भगवता'मित्यादिना(१४५-२)भगवतां
समग्रैश्वर्यादियोगिनां परमर्षीणां परमार्थगामिना केवलिनां सर्वज्ञानां अवर्णवाद इति सम्बन्धः, एवं अर्हत्प्रोक्तं तदर्थाभिधानतः साङ्गोपाङ्गस्य श्रुतस्य आचारराजप्रसेनजिदूपस्य, एवं चतुर्वर्णस्य संघस्य, इह चत्वारो वर्णाः साधुसंयतिश्रावकश्राविकाख्या वर्ण्यन्त | इति वर्णा इतिकृत्वा, एवं पञ्चमहाव्रतस्य धर्मस्य यतिसम्बन्धिनः क्षान्त्यादिप्रधानस्य, एवं चतुर्विधानां भवनवास्यादीनां (देवानां) अवर्णवावः-अवर्णभाषणं, किं केवलिना निवृत्तभोगसुखेन ? किं श्रुतेन प्राकृतादिदोपवता ? किं संघेन मलगेन कल्पेन ? किं धर्मेणानुपभोगस्थानाप्तिफलेन ? किं देवैर्भोजनादिक्रियारहितैरित्येवमाद्यवर्णवादो दर्शनमोहस्य कर्मणो मिथ्यात्वप्रधानस्याश्रवो
॥२७॥
॥२७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org