________________
श्रीतत्त्वार्थ
हरि० ६ अध्या०
वेद्याश्रवाः
रणं अन्तरायः श्रवणादौ आसादना अविध्यादिग्रहणादिना उपघातो मतिमोहेनाहारावदानेन इत्येवमाद्याः प्राणातिपातादयश्च,द्वीन्द्रियादीनामपि तद्भावात् व्यापितापत्तेः, ज्ञानावरणस्य कर्मणः आश्रवा भवन्ति, प्रवेशमार्ग इत्यर्थः, आश्रवभावा|र्थमाह-एतैर्हि ज्ञानावरणं पुद्गलात्मकं कर्म बध्यते, तस्मादेते आश्रवा इति, एवमेवेत्यादि, एवमेवेत्यनेनातिदेशमाह, यथा | ज्ञानावरणस्य तत्प्रदोषादयः तथा दर्शनावरणस्यापि चक्षुर्दर्शनावरणादेः, नवरं दर्शनस्य तत्त्वार्थश्रद्धानलक्षणस्य दर्श| निनां-विशिष्टाचार्याणां दर्शनसाधनानां च सम्मत्यादिपुस्तकानामिति वाच्यं । असद्वेद्यस्याश्रवानाह
दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेयस्येति ॥ ६-१२ ।। सूत्रम् ॥ | दुःखादीन्यात्माद्यधिकरणान्यसद्वेद्यस्याश्रवा भवन्तीति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'दुःख'मित्यादिना (१४४ ९) तत्र | दुःखयतीति दुःखं बाधालक्षणं शारीरादिः,शोको मानसवैक्लव्यं मानसः परिणामः,तापस्तत्फलभूतो देहपीडाविशेषः, आक्रन्दनमुच्चैरार्तविलपन,वधः कसादिताडनं परिदेवनं, मुहुर्मुहुर्नष्टचित्ततयैव समन्ताद्विलपनं इत्येवमादीनि आत्मस्थान्यात्मनि वर्तमानानि आगमोक्तविधिबाधया,परस्य क्रियमाणान्यविधिलोचकरणादिना, उभयोस्तूभयोः क्रियमाणान्यविधिशिक्षाग्रहणादिना असद्वेचस्येति असदित्यशोभनविधिना वेद्यते यत् कर्म तस्याश्रवा भवन्तीति पूर्ववत् ।। सवेद्यस्याश्रवानाह
भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्येति ॥ ६-१३ ॥ सूत्रम् ॥ भूतानुकम्पादयो जातिभेदेन सद्वेद्यस्याश्रवा भवन्तीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'सर्वभूतानुकम्पे'त्यादिना, (१४४-१३) सर्वभूतानुकम्पा अविशेषेण सर्वभूतदया अगारिष्वित्यगार-गृहमधिकरणब्यापारवत्तया एषामगारिणः
DISEEEEDDISEX
॥२६९।।
॥२६९॥
For Personal Private Use Only
www.jainelibrary.org