________________
श्रीतार्थहरि० ६ अध्या०
॥ २६८ ॥
CDX DOC DOCPOC.
(10CJOC->C
Jain Education International
| रूपाऽपरमार्गणया परिभोगेन चैवमधिकरणमिति । 'निसर्गे 'त्यादि, निसर्गाधिकरणं त्रिविधं त्रिप्रकार, प्रकाशनाह 'काये'त्यादिना, कायः - औदारिकादि शरीरं तन्निसर्गः अविधिना त्यागोऽधिकरणं, कायान्तरपीडापत्तेः, एवं वाङ्मनोनिसर्गावपि वाच्यौ, शास्त्रबाह्येन विधिना, विना विधिमधिकरणमेव, आह-कथमिदमजीवाधिकरणं १, उच्यते, बहिर्व्यापारापेक्षया, कायादीना| मचेतनत्वात् मूलगुण निर्वर्त्तनाधिकरणमपि संस्थानमात्रमेपामिति विशेषः । 'अत्राहे' त्यादि, सम्बन्धग्रन्थः, अत्र सामान्याश्रववि| चारे भवतोक्तं, किमित्याह-सकषायाकषाययोः बन्धकयोर्योगः कायादिव्यापारः यथासंख्यं साम्परायिकेर्यापथयोः कर्मगोराश्रव इत्येवमुक्तं भवता, साम्परायिकं च कर्म्म अष्टविधं ज्ञानावरणादि वक्ष्यते बन्धाध्याये, तत् किं सर्वस्य कर्मणो ज्ञानावर| णादेः अविशिष्टः आश्रवस्तुल्यः कायादिव्यापारो हेतुः आहोश्वित् प्रतिविशेषो भेदः कर्म्म कर्म्म प्रति कश्चिदस्तीति, अत्रोच्यते समाधिः, 'सत्यपी' त्यादिना, सत्यपि भवत्यपि योगत्वाविशेषे योगसामान्ये किमित्याह - प्रकृतिं प्राप्याश्रित्य ज्ञानावरणादिलक्षणादिलक्षणा आश्रवविशेषा भवन्ति, एनमेव दर्शयति- 'तद्यथे' त्यादिना -
तत्प्रदोषनिव मात्सर्यान्तरायासावनोपघाता ज्ञानदर्शनावरणयोरिति ॥ ६-११ ॥ सूत्रम् ॥ प्रदोषश्च निश्चेत्यादिर्द्वन्द्वः, तयोर्ज्ञानदर्शनयोः प्रदोषादयः ज्ञानदर्शनावरणयोराश्रवा इति सूत्र समुदायार्थः । अवयवार्थं त्वाह'ज्ञानस्ये' त्यादिना (१४४-३) ज्ञानस्य-मत्यादेः सामान्येन तथा ज्ञानवतामाचार्यादीनां ज्ञानसाधनानां च पुस्तकादीनां किमित्याह- प्रदोष इति, प्रकृष्टो दोषः, किमनेन क्रियारहितेन ? अनन्तगममेतत् परलोकस्यैते मत्सराः निह्नवो वाचनाऽऽचार्याऽपलापः ज्ञाननिह्नवो वा नाहमिदं वेद्यीति, मात्सर्य योग्यार्थिनोऽपि ज्ञानादानं, मा मत्समो भवतु कश्चिदिति परिणामः, विनक
For Personal & Private Use Only
अजीवाधिकरणं
॥२६८॥ .
www.jainelibrary.org