SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ करणं ति चशब्दान्मलगुणनिर्वर्तनाधिकरणामिसम्बन्धः,वाइमनोवर्गणायोग्यद्रव्यनिर्मापितौ बाङ्मनःसंस्थानविशेषौ मूलगुणनिर्वर्तनाश्रीतवार्थ-IIR|धिकरणं, तथा प्राणापानवर्गणायोग्यद्रव्यनिर्मापित उच्छासनिःश्वासाकारौ मूलगुणनिवर्तनाधिकरणम् , एषामप्युत्तरगुणनिर्वर्तनान | हरि० | सम्भवत्येवेति। मूलगुणनिर्वर्तनाधिकरणमित्थं व्याख्याय प्रकारान्तरेणोत्तरगुणनिर्वनागुणमाचिख्यासुराह-काष्ठपुस्तचित्रकर्मा६ अध्या० दीनीति,कर्मशब्दं प्रत्येकममिसम्बद्धयते,तत्र काष्ठकर्म कुट्टिमं पुरुषादीनां प्रतिकृतिः,अत एवोत्तरगुणनिर्वर्तनोच्यते,प्रसिद्धपुरुषायाकृतेः प्रतिविम्बनिवर्त्तनाद् , एवं पुस्तचित्रकर्मणी अपि वाच्ये,पुस्तकर्म सूत्रचीवरकादिग्रथितं कृत्रिमपुत्रकादिकं चित्रकर्मात्यन्तप्रसिद्धमादिग्रहणाल्लेप्यपत्रच्छेद्यजलकर्मभूकर्मपरिग्रहः, शस्त्रमप्यनेकाकारमाख्यातं कृपाणादिखसंस्थानतो मूलगुणनिवर्त्तना|धिकरणं, तीक्ष्णतोज्ज्वलताधुत्तरगुणाधिकरणमिति । अधुना निक्षेपाधिकरणनिर्धारणायाह-'निक्षेपे'त्यादि (१४३-८) निक्षेपाधिकरणं चतुर्विधं चतुष्प्रकार, तद्यथा-तथाऽऽह, अप्रत्युपेक्षितेत्यादिना, अप्रत्युपेक्षिते-चक्षुषाऽनिरीक्षिते, भूभाग इति गम्यते, निक्षेपाधिकरणमिति, निक्षेप्यस्य-दण्डकादेः स्थापनमसामाचारित्वात् ,एवं दुष्पमार्जितनिक्षेपाधिकरणं दुष्प्रमार्जितं प्रमादादनेकशः सकृद्धा, सुप्रमार्जितं त्वेकतस्विरिति, एवं सहसानिक्षेपाधिकरणं घेतयतोऽपि कथंचित् प्रमादादशुद्धभूभागे निक्षेपाधिकरणं अनाभोगनिक्षेपाधिकरणं अत्यन्सविस्मृत्यानुचिते भूभागेत्यादि, संयोगाधिकरणं द्विविधं द्विप्रकार, प्रकारावाह |-भक्तपानेत्यादि (१४३-११) भक्तम्-अशनादि त्रिधा, पानं तु-पानमेव द्राक्षापानकादि, एतत्संयोजना बहिरोदनादिलामे क्षीरादिमार्गणया अन्तर्वा मुखे उपदंशादिप्रक्षेपेण ग्रासे, एवं पाने बहिरुचितलामे चातुर्जातकादिमार्गणया अन्तर्मुख एव तत्तदा॥२६७॥ हारोपरि, अधिकरणमेतदसामाचारित्वात् , एवमुपकरणेत्यादि, उपकरणं-वस्त्रपात्रादि तत्संयोजना तथाविधविचित्रलाभे तदनु ॥२६७॥ Jan Education International For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy