________________
the
श्रीतवार्थ
अजीदाधि
हरि०
६अध्या०
उत्तरगुण एव निवजात कर्मबन्धस्य तथालगणः मूलम् आधाथमाह मूलगुणा साधनपक्षे पष्टीत-/O
त्यादि इतिकरणो मूलभेदेयत्वाप्रतिपादनार्थः प्राग्व्याख्यातः, शब्दनिमेंदद्वारेण स्वरूपकथनमेषां क्रियते 'तो'त्यादि, तत्र तेषु निर्वर्तनादिषु निर्वर्तना तावद् व्याख्णायते,निवर्त्तनैवाधिकरणं निर्वर्तनाधिकरणमिति समानाधिकरणमिति भावः, साधनपक्षे षष्ठीतवपुरुषः,निवर्तनाया अधिकरणमेवमन्यत्रापि योज्यं,तद् द्विविध-द्विप्रकार,प्रकारद्वयप्रदर्शनार्थमाह-मूलगुणनिवर्त्तनाधिकरणं उत्तरगुणनिवर्तनाधिकरणं च,चशब्दः समुच्चये,मूलं चासौ गुणश्च मूलगुणःमूलम्-आद्य प्रतिष्ठासंस्थानाख्यो गुणो मूलगुणः स एवं निवर्त्तनाधिकरणं,सहि निर्वर्तितःसनधिकरणीभवति कर्मबन्धस्य,तथाऽङ्गोपाङ्गसंस्थानमृजादितण्यादिरुत्तरगुणः,सोऽपि निवृत्त समधिकरणीभवति कर्मबन्धस्य, उत्तरगुण एव निवर्त्तनाधिकरणं, तत्र मूलगुणनिवर्त्तना पञ्च शरीराणीत्यत्राधिकरणशब्दो | नोदितो भाष्यकृता लाघवैषिणा,अनुक्तोऽपि च प्रत्यासत्तितो गम्यतेऽतो मूलगुणनिवर्त्तनाधिकरणमौदारिकादीनि पश्च शरीराणि,तानि | च द्वितीयेऽध्याये व्याख्यातानि,प्रकृते वस्तूनि योज्यन्ते, औदारिकशरीरवर्गणाप्रायोग्यद्रव्यैर्निर्मापितमौदारिकशरीरसंस्थानं प्रथमसमयादारभ्य मूलगुणनिवर्तनाधिकरणमात्मनो भवति,वन्धनिमित्तत्वात् , उत्तरगुणनिवर्त्तनाधिकरणमौदारिकस्याङ्गोपाङ्गमृजाकर्णवेधावयवस्थापनादि, वैक्रियस्यापि वपुषः स्ववर्गणाप्रायोग्यद्रव्यनिर्मापितमादिसमयादारभ्य संस्थानं मूलगुणनिवर्त्तनाधिकरणम् ,अस्पोत्तरगुणनिवर्तनाधिकरणमङ्गोपाङ्गकेशदशननखादिकं, आहारकशरीरस्यापि स्ववर्गणायोग्यपुद्गलद्रव्यनिर्मापितं संस्थानं मूलगुणनिवनाधिकरणं उत्तरगुणनिवर्तनाधिकरणमङ्गोपाङ्गादि, कर्मसंघातलक्षणस्य कार्मणस्यापि तद्योग्यनिर्मापितस्वसंस्थानं मूलगुणनिर्व
नाधिकरणं,उत्तरगुणनिर्वर्तनाधिकरणमस्य नास्त्येव, तैजसस्याप्यूष्मलक्षणस्याशितपीतपाचकशक्तिभाजो लब्धिप्रत्ययस्य च परनिग्रहानुग्रहकारिणःस्ववर्गणानिर्मापितसंस्थानं मूलगुणनिर्वनाधिकरणम् , अस्याप्युत्तरगुणनिवर्चना नैवास्ति, वाङ्मनः प्राणापानश्चे
॥२६६॥
॥२६६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org