________________
श्रीतचार्थ
हरि० ६ अध्या०
E
निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुद्वित्रिभेदाः परं ॥ ६-१०॥ सूत्रम् ॥ निर्वर्तनादयः कृतद्वन्द्वाः यथाक्रमं कृतद्वन्द्वैरेव द्वयादिमिः समानाधिकरणा द्रष्टव्याः, अधिकरणमित्यनुवर्तते, तत् पर-IR अजीवाधिमित्यनेनामिसम्बन्ध्यतेऽजीवाधिकरणं तन्निवर्तनादिभेदाच्चतुर्द्धा अजीवविषयान्निवर्तनानिक्षेपसंयोगनिसर्गान् कुर्वन् रागद्वेष-IM
कला वानात्मा साम्परायिकं कर्म बध्नाति, निर्वय॑मानमजीवद्रव्यं निर्वर्तना निर्वय॑मानप्रयोजना निर्वर्त्तनेति भावसाधना वा, सा. | द्विविधा मूलोत्तरगुणभेदात् , निक्षिप्यतेऽसाविति निक्षेपः- स्थाप्यः कश्चिदजीव एव, स चतुर्विधः अप्रत्यवेक्षितादिभेदात् , माव| साधनो वा, संयोजन संयोगः-एकस्यीकरणं व्यामिश्रणं, तविधा-आहारोपकरणभेदात् , निसर्जनं निसर्गः त्यागः उज्झनं, तत्रिधा कायादिभेदात् , परवचनमनर्थकं, पूर्वत्राद्यवचनाद् , अमिन् वा सत्याद्यवचनमनर्थकमपत्तिसिद्धेरिति चेत् , तन, अन्तरङ्गताप्रतिपादनार्थत्वाद् आद्यशब्दस्य, बहिरंगताप्रतिपादनार्थत्वाच्च परशब्दस्येति, विशिष्टार्थप्रतिप्रत्तिहेतुत्वादुभयं न्याय्यमिति, | असमेवार्थ भाष्येण स्पष्टयति-परमिति सुत्रक्रमप्रामाण्यादजीवाधिकरणमाहेत्यादि (१४३-३ भाष्यम्) पर-पहिरामितिकरणः शब्दपदार्थकः प्रतिविशिष्टपुरुषप्रणीतसूत्रप्रक्रमस्य प्रमाणत्वात . परं बहिरङ्गमप्रधानमजीवाधिकरणमाह, जीवपरिणामोऽभ्यन्तरङ्गं तदायत्तत्वात् कर्मबन्धस्य,निमित्तमात्रत्वाद् बहिरंगमजीवाधिकरणं, इष्टामिधायी वा परशम्दः,प्रायोगिकाः वैश्रसा | वा निर्वर्तनादयोऽध्यवसेयाः, आधं च जीवविषयत्वाद्भावाधिकरणमुक्तं,कर्मबन्धहेतुर्मुख्यतः, इदं तु द्रव्याधिकरणमुच्यते-परम्अमुख्यं निमित्तमात्रत्वात् , तद्-अजीवाधिकरणं समासतः संक्षेपतः चतुर्विधं चतुष्प्रकारं भवति, समासग्रहणान्मूलोत्तरगुणादि-/ भेदशरीरादिशस्त्रकलापश्च व्यासः सूक्ष्मप्रमेदः आपादितो भवति, तद्यथेत्यादिना चतुरो विकल्पान् स्वरूपतः पठन्ति, निवर्त्तने
DIO
॥२६५॥
For Personal Private Use Only
rary.org