________________
श्रीतचार्थ
हरि० ६ अध्या०
शताष्टमेदं जीवाधि
करणं
-
न्द्वानां विशेषशब्देन समानाधिकरणस्तत्पुरुषः, षष्ठीसमासो वा, प्रत्येकं वा विशेषशब्देनामिसम्बन्धः सामर्थ्यात् , संरंभादिविशेषैरिति तृतीयानुपपत्तिः, क्रियावाचिपदार्थान्तराभावात् , न, वाक्यशेषोपपत्तेः, प्रविश पिण्डीमिति यथा, तथेहापि क्रियापदावधारणम् , एकैकं भिन्द्यात् एकमेकं त्रीन् भेदान् कुर्यादिति, वाग्योगादीनामानुपूर्व्या वचनं पूर्वापरविशेषणत्वात् , तस्मात् क्रोधादिचतुष्टयकृतकारितानुमतिभेदात् कायादीनां संरंभसमारम्भारम्भविशेषाः पत्रिंशद्विकल्पाः स्फुटीक्रियन्ते यन्त्रेण, उद्भूतक्रोध परिणाम आत्मा करोति संरंभ कायेनेति प्रथमः, जातमानपरिणाम आत्मा करोति संरंभ द्वितीयः, तथोपजातमायापरिणतिरात्मा करोति स्वयं कायेन संरम्भमिति तृतीयः, तथा लोभकपायग्रस्तः करोति स्वयं कायेन संरम्भमिति चतुर्थः, एवं कृतेन चत्वारो विकल्पाः,कारितेन चत्वारोऽनुमत्याऽपि चत्वारः, एते द्वादश कायेन लब्धाः,तथा च द्वादश वचसा, मनसाऽपि द्वादश, एते षट्|त्रिंशत् संरंभेण लब्धास्तथा समारंभेणापि पत्रिंशत् , तथाऽऽरम्मेणापि पत्रिंशदिति, वचनाद्वन्धस्थितिः कोपादिकषायैर्जनवशी|कारात् स्वयं करणपरिणतो सत्यां कारितानुमतिपरिणामद्वारेण च प्राणातिपातादिसंकल्पपरितापनाव्यापत्तयः साम्परायिककर्मच
न्धहेतवो भवन्तीति प्रतिपादितं, प्राक्कायादयो व्यस्ताः समस्ताश्च बन्धहेतवः,समस्तास्तु प्रधानोपसर्जनतया प्रधानतया अप्रधान|तया च बन्धहेतव इति प्रतीतम् , एवमेतजीवाधिकरणं विकल्पमापनीयमिति । 'अत्राहे'त्यादिना (१४२-१८) सम्बन्ध प्रतिपादयति, अत्रेति जीवाधिकरणव्याख्यानावसाने परोऽनवबुध्यमान आह-अधाजीवाधिकरणं किमिति, अयेत्यानन्तर्यार्थः, जीवाधिकरणादनन्तरमजीवाधिकरणं प्राक् निरदेशि सूत्रकारेण तत् किमिति-किंखरूपं-किस्खभावं तद् ?,इतिकरणं प्रश्नेयत्ताप्रति|पादनार्थः, अथ पृष्टे अत्रोच्यत इत्याहाचार्यः, अत्र प्रश्नेऽनुरूपमुत्तरमभिधीयते
-
-
नाव्या
,समस्तास्त
विकल्प्य
।
॥२६४॥
नन्तरमजीवालव्याख्यानावसाने
॥२६४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org