________________
श्रीतत्वार्थ-
हरि० ६ अध्या०
शताष्टभेदं जीवाधि
करणं
MANOHIT PosmpmomIMIDAIMIM THMANOHITRADI TIONAMIHIDH
| कषायाः प्रागमिहितलक्षणाः सामान्येन विशेषो-भेदः तद्भेदाच्चतुर्विधं भवति, तद्यथेत्यादिना दर्शयति, यथामिहितलक्षणात् विकल्पात् क्रोधकृतकायसरंभः एवं मानमायालोभकृतकायसंरंभ इत्यपि वाच्यं, एवं क्रोधकारितकायसंरम्भः मानमायालोभका- रितकायसंरम्भ इत्यपि वाच्यं, तथा क्रोधानुमतकायसंरम्भः मानमायालोभानुमतकायसंरम्भ इत्यपि वाच्यं, एवं वाङ्मनः (सं)योगाभ्यामपि वक्तव्यमित्यतिदेशवाक्यं एवमित्युक्तप्रकारेण वाग्योगेनापि क्रोधादिविशिष्टेन वाच्यं क्रोधकृतवाक्संरंभः |मानमायालोभकृतवाक्संरंभ इत्यपि वाच्यं तथा क्रोधकारितवाक्संरम्भ इत्यपि वाच्यं तथा क्रोधानुमतवाक्संरंभः मानमायालोमा
नुमतवाक्संरंभ इत्यपि वाच्यं, एवं मनोयोगेनापि क्रोधादिविशिष्टेन विकल्पा एतावन्त एव वाच्याः, क्रोधकृतमनःसंरम्भः मान|मायालोभकृतमनःसंरम्भ इत्यपि वाच्यं, तथा क्रोधकारितमनःसंरम्भः मानमायालोभकारितमनःसंरम्भ इत्यपि वाच्यं, तथा क्रोधानुमतमनःसंरम्भः मानमायालोभानुमतमनःसंरंभ इत्यपि वाच्यं, एवमेते पत्रिंशद्भेदास्तद्यथा-क्रोधकृतकायसंरंभ इत्यादिना ग्रन्थेन प्रतिपादिताः, तथा समारम्भारम्भाविति अतिदेशेन समारम्भस्य षट्त्रिंशद्भेदत्वं संरम्भवत् प्रतिपादयति, क्रोधकृतकायसमारम्भ इत्येवमतिकान्तग्रन्थः पुनरावर्तनीयः, ततश्च द्वितीया पत्रिंशल्लभ्यते, तथा क्रोधकारितकायारम्भ इत्यप्यनुवर्तमाने ग्रन्थे षत्रिंशदेव विकल्पानां प्राप्यते,एवमेषा पत्रिंशत् त्रिप्रकारापि पिण्डिताऽष्टोत्तरं परिणामशतं भवतीत्येतदेवोपसंजिहीर्षन् दर्शयति । -तदेवं जीवाधिकरणं समासेनेत्यादि, यत् प्रस्तुतं जीवाधिकरणं तदेवं समासेन-संक्षेपेण एकशः-एकैकं संरंभाधिकरणं समा| रम्भाधिकरणमारम्भाधिकरणं च षद्भिशद्विकल्पं भवति त्रिविधमपि, समुच्चयेऽपिशब्दः, तिस्रोऽपि पत्रिंशतः शतमष्टोत्तरं शतं विकल्पानां भवतीति भाष्याक्षरानुसरणमवसेयं, सूत्रावयवस्फुटीकरणाय पुनरुच्यते-संरम्भादीनां कषायावसानानामाहितद्व
।।२६३॥
॥२६३॥
शतं विकल्पनारम्भाधिकरणं च पदविंशविकल्पस्तुतं जीवाधिकरणं तदेवं समासन
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org