SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि ६ अध्या० शताष्टमेदं जीवाधिकरणं एतद्-द्रव्यशस्त्रादि उभयं वर्त्तते, एतदेवाह-जीवाधिकरणमजीवाधिकरणं च, सोऽपरोधिकरणभेद इति । तयोरधिकरणयोः आवं संरंभसमारम्भारम्भयोगकृतकारितानुमतिकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकश इति ॥ ६-९॥ सूत्रम् ।। जीवाधिकरणमित्थं विचित्रमिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'आद्य'मित्यादिना (१४१-१७) आदौ भवं आय, इतिशब्दः पदार्थवाचकः, कुत आदित्वमित्याह-सूत्रक्रमप्राधान्याद् , अधिकरणं जीवाजीवा इति सूत्रक्रमः तत्प्रामाण्याद् ,एतावता जीवाधिकरणमिहाद्यमिति, नदित्यादि, तत्-जीवाधिकरणं समासतः-संक्षेपतस्त्रिविधं त्रिप्रकारम् , आह-संरंभः समारम्भः आरम्भ इति, तत्र प्राणातिपातादिसंकल्पः संरंभः तत्साधनजनितपरितापकरः समारम्भः प्राणातिपातादिक्रियावृत्तिरारम्भः, एतदि'त्यादि (१४१-१८) एतद्-जीवाधिकरणं पुन:-भूयः 'एकैकश' इत्येकै 'कायवाङ्मनोयोगविशेषादिति कायसंरम्भाधिकरणं प्रक्रान्तत्वादधिकरणस्य, एवं शेषेष्वपि, योगभेदेन च विकल्प्य संरंभादीनधुना क्रियाद्वारेण योगान् विकल्पयति-(तद्यथेत्यादि) संरंभ कायेन करोति वाचा करोति मनसा करोतीति, एवं कारयत्यपि विकल्पत्रयं, तथाऽनुमन्यते, विकल्पअयमेव, कृतवचनं स्वतन्त्रकर्तृप्रतिपादनार्थ, कारितामिधानं प्रयोज्यपरतन्त्रप्रदर्शनार्थ, अनुमतिवचनं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थ, एतदेव भाष्यकारो दर्शयति-तद्यथा कृतकायसंरंभ इत्यादिना (१४२-४) वचननवकेन, यथा चायं कायसं : कृतकारितानुमतिभेदेन विकल्पितः एवं समारम्भारम्भावपि कृतकारितानुमतिविकल्पिती वाच्यौ, समारम्भं करोति समारम्भ कारयति समारम्भमनुमन्यते कायेनेत्यादि नवधा विकल्पना,तथाऽऽरम्मं करोति कारयत्यनुमोदते चेति नवैव विकल्पा वेदितव्याः, 'तदपी'त्यादिना (१४२-७) पुनश्चतुर्दा भिनत्ति, कृतकायसमारम्भाधिकरणादि पुनरेकै कषायविशेषाच्चतुर्विधं भवति, ॥२६॥ ॥२६२॥ Bil Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy