________________
अधिकरण
श्रीतत्वार्थ
हरि० ६ अध्या०
भेदाः
त्रादिभेद एव तद्विशेषात् हस्तिप्राणामिधारणवदुत्कर्षभावात् , अल्पवीर्यप्रहारेऽपि तद्गमने भयादिसिद्धेः, अधिकरणविशेषात् कूटयन्त्रकलादिलक्षणाद्विशेषो भवति कर्मबन्धस्य, अयं चैकैक आश्रवो मृद्वादिभेदादनेकधेत्याह-'लघुर्लघुतर' इत्यादि (१४१-५)|
१४१-५) प्रभूतसत्त्वाश्रयत्वादस्यैवमुपन्यासः,स्वरूपं वास्य कथंचित् कृम्यादि घातयतोऽवसेयं,एवं 'तीवस्तीवतर'इत्यादि,अयमपि सिंहादि: घातयतोऽवसेयः, अत्र अस्योपन्यासः आश्रवाधिकारात् तत्प्राधान्यप्रदर्शनार्थः, अनेन मध्यममध्यमतरादिग्रहा, लघुतीबादि तद्विशेषाच्चे'त्यादि, आश्रवलध्वादिभेदाच्च बन्धविशेषो भवति लघ्वादिरेवेति । 'अत्राहे त्यादि (१४१-७) सम्बन्धग्रन्थः। अत्रातीतसूत्रव्याख्यावसाने परः प्रश्नयति-तीव्रमन्दादयो भावाः अनन्तरोपन्यस्ता लोकप्रतीताः प्रकर्षाप्रकर्षादिलक्षणाः वीर्य च जीवस्य -आत्मनः क्षायोपशमिकः क्षायिकश्वं भाव इत्युक्तं प्राक, अथाधिकरणं किमित्यत्रोच्यते समाधिः
अधिकरणं जीवाजीवा इति ॥ ६-८॥ सूत्रम् ॥ | अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं, एतच्च तत्वतो जीवाजीवा इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'अधि-| करणं द्विविध 'मित्यादिना (१४१-११) अधिकरणं प्रागनिरूपितशब्दार्थ द्विविध-द्विप्रकारं जीवाजीवभेदमप्येकैकं, कथं | द्विविधमित्याह-'द्रव्याधिकरण'मित्यादि, छिद्यतेऽनेनेति छेदनं-परश्वादिः एवं मिद्यतेऽनेनेति भेदन-मुद्रादिः, आदिशब्दा-| प्रोटनादिग्रहः, शस्त्रं च दशविधं-संख्याविशेषनिर्धारणार्थ भेदामिधानमस्य,दशविधमेव शस्त्रमिति,यथोक्तं-“दवं सत्थग्गिविसं | नेहंबिलखारलोणमादीयं । भावो य दुप्पउत्तो वाया काओ अविरई अ॥१॥" इहाविरतेर्भावान्तर्गतत्वादशविधमिति, "भावाधिकरण'मित्यादि, भावः-तीव्रादिपरिणामः स एवाधिकरणमुक्तनीतेः, एतदष्टोत्तरशतमेदं अनन्तरसूत्रे वक्ष्यते, 'एतदित्यादि,
शायिकश्च भाव इत्या भावाः अनन्तरोपन्यति। अाहे. त्यादि मध्यमतरादिग्रहः, लघुताबाप सिंहादिः । मेदारण
॥२६॥
| ॥२६१॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org