________________
श्रीतत्त्वार्थ-
हरि० ६ अध्या०
पुण्यापुण्ये सापरायिकेतरौ
பாட்டி பயாடி வாயை மாடில்
एतद् व्यायष्टे, शुभपरिणामबन्धात शुभः योग:-कायादिव्यापारः पुण्यस्य सातसम्यक्त्वादेः आश्रयो भवति, एतद् व्याचष्टे-आश्रवो भवतीत्यनुवर्तमाने पुण्यपापलक्षणमेवाह, 'तत्रे'त्यादिना (१४०--२) तत्र-तयोः पुण्यपापयोः सद्यादि पुण्यं, वक्ष्यतेऽष्टमेऽध्याये 'सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्य'मित्यादिना शेषं पापमिति (अ०६४ सू०) उपर्युक्ताद् अन्यच्छेषम्-असातादि पापमुच्यत इति,सामर्थ्यसूत्रोपन्यासः स्पष्टार्थो विप्रतिपत्तिनिरासार्थश्च, पुण्यमेव कनिष्ठं पापमिति केचित्तन्न तथेति । अयं च
सकषायाकषाययोः सांपरायिकेर्यापथयोरिति ॥६-५ ॥ सूत्रम् ॥ समुदायार्थः प्रकटः।। अवयवार्थ त्वाह-'स एष' इत्यादिना (१४०-४) स एष त्रिविधोऽपि योगः कायादिव्यापारादिलक्षणोऽधिकृतः, किमित्याह-सकषायाकषाययोः क्रोधादियुक्ततद्रहितयोः प्राणिनोः कोरित्यर्थः, किमित्याह-साम्परायिकेर्यापथयोः कर्मणोराश्रवो भवति, तत्र सम्परत्यस्सिन्नात्मेति सम्परायः-संसारः, समित्यव्ययं समन्तादावे संकीर्णादिवत् , |परा भृशार्थे पराजयतिवत् ,सम्परायः प्रयोजनमस्य कर्मणः साम्परायिक-संसारपरिभ्रमणहेतुः ईरणमीर्या-गतिरागमानुसारिणी विहि
तप्रयोजने सति परस्तायुगमात्रदृष्टिः स्थावरजङ्गमानि भूतानि परिवर्जयन् अप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा या गतिः | पन्था-मार्गः प्रवेशो यस्य कर्मणः तदीर्यापथम् , एवंविधगत्युपादानं कर्म, साम्परायिकईर्यापथयोः समासः तयोराश्रवो भवति | | यथासंख्यमिति यथासंख्यं, न व्यत्ययेन, यथासम्भवं चेति यस्य यावान् योगः सम्भवत्येकेन्द्रियादेः, यथासंख्यमेवाह-सकपायस्य योगः साम्परायिकस्याश्रवः,यथासम्भवं कषायोत्कर्षादिभेदात् , अकषापस्येर्यापथस्यैवाश्रवो, न साम्परायिकस्य,
॥२५७||
॥२५७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org