________________
श्रीतत्त्वार्थ
हरि० ६ अध्या
आश्रवः तद्भेदाच
| अहिंसास्तेयब्रह्मचर्यादिलक्षणः, एवमसावद्यागमपरिशुद्धं वचनं, एवममिध्यादिव्यावृत्तं मन इति । एवं शुभाशुभं योगममिधाय साश्रवत्वममिधातुमाह
स आश्रव इति ॥ ६-२ ॥ सूत्रम् ॥ प्रकटसमुदायार्थमेव, एतद् व्याचष्टे 'स एष' इत्यादिना (१३९-१०) स एष इत्यनेन प्रागुद्दिष्ट निर्देशः, त्रिविधो योग इति तिस्रो विधा यस्य स तथाविधः, अपिशब्दः समुच्चये,एकोऽपि समुदायोऽपि योगः कायादिव्यापारः, किमिति !, आश्रयसंज्ञो भवति, आश्रवः संज्ञा इत्याश्रवसंज्ञो भवतीत्यर्थः,एनमेवाह-'शुभेत्यादिना (१३९-१०) शुभाशुमे-पुण्यापुण्ये कर्मणी पुद्गलात्मके वक्ष्यमाणलक्षणे तयोः कर्मणोराश्रवणाद् ग्रहणात् तेन क्रियाविशेषेणोपादानात् स तादृशः क्रियाकलाप आश्रवः, | तथापरिणतो जीवः कादत्तेऽन्यथा त्वभाव एव कर्मबन्धस्येति, स च द्रव्यमावाद् द्विप्रकारः आश्रवः, तत्र द्रव्याश्रवप्रदर्शनेन भावाश्रवं प्रतिपादयन्नाह-सरःसलिलावाहिनिर्वाहिश्रोतोवदिति सलिलमावहति तच्छीला च सलिलावाहि तथा सलिलनि- | वाहि सलिलावाहिनिर्वाहिनी च स्रोतसी चेति सलिलावाहिनिर्वाहिश्रोतसी तस्यास्तुल्य आश्रवः, सलिलावाहिनिर्वाहि श्रोतो-विवरं रन्ध्र, कस्य सम्बन्धि!-सरसः तडागस्य, किंप्रयोजनं तत् स्रोतः?,सलिलवाहि-सलिलप्रवेशः प्रयोजनं, एवं सलिलनिर्गमप्रयोजनं सलिलनिर्वाहि, तद्वदाश्रवोऽप्यात्मनः सरस्तुल्यस्य सम्बन्धी तत्परिणामविशेषः कर्मसलिलस्य प्रवेशे निर्गमे च-निर्जरणे कारणमाश्रवः, कर्माण्याश्रवत्यनेनात्मनोऽपयंति चेत्यर्थः । अयं च .
. . शुभः पुण्यस्येति ॥ ६-३ ॥ सूत्रम् ।।
॥२५६॥
॥२५६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org