________________
श्रीतक्वार्थ
हरि० ।
६ अध्या०
असच्चवइजोगे सच्चामोसवइजोगे असच्चामोसवयजोगे, एवं सञ्चमणजोगे" इत्यादि,तत्रौदारिकादिशरीरयुक्तस्यात्मनो योगः-वीर्यपरिगतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवान्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः, एवमौदारिक
योग
व्याख्या वैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याजीवपरिणामो मनोयोगः,'स एकश' इत्यादि (१३९-५)स त्रिविधो योगः, स एकश इत्येकैकः कायादियोगः द्विविधो-द्विमेदःशुभोऽशुभश्च शुभं-पुण्यं सातादि सकलकर्मक्षयो वा तद्धेतुत्वाच्छुमः एवमशुभं-पापमसातादि संसारो वा तद्धेतुत्वादशुभः,चशब्दोऽपरिकल्पितत्वेनोभयोस्ताविकत्वज्ञापनार्थः,तत्राशुभः संवेगनिबन्धनत्वादादावुच्यते, सचहिंसाऽनृतस्तेयाब्रह्मादीनि कायिको हिंसादीनि वक्ष्यमाणानि 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसे'त्यादिना, अयं च कायप्रधानत्वात् कायिकः,केवलोऽप्ययमसंज्ञिमत्स्यादीनां प्रवचने सिद्ध इति, वाचिकमाह-सावधानृतपरुष| पिशुनादीनि वाचिकः, वदनीयं वद्यु,न वक्तव्यं अवयं सहावद्येन सावधं, यथा हन्यतां तस्करोऽयं इत्यादि, अनृतम्-अयथार्थ |अचौरे चौर इति प्रवचनं, परुष-स्नेहरहितं, धिग्जाल्म इत्यादि, पिशुनं प्रीतिशून्यतापादनं परदोषसूचकत्वेन, आदिशब्दादसभ्या| दिपरिग्रहः, अयमपि वाक्प्रधानत्वात् वाचिकः, मानसमाह-अभिध्याव्यापादेासूयादीनि मानसं: अयमपि मन प्रधानत्वान्मानसत्वेऽमिद्रोहण्यानममिया यथासिन् मृते सुखं वत्स्वामीत्यादि, सोपाय उत्सादनारम्भो व्यापादः,यथाऽस्त्यस्य रिपुः शक्तः एनं हन्तुमिति तं कोपयामीत्यादि, ईर्ष्या परगुणविभवाधक्षमा, सुभगे! अयमस्यै रोचते तत् कथमियं दृष्येत्यादि, असूया क्रोधपरिणाम एव, यथाऽयं ते पिता गतासुकस्तनुरित्यादि, आदिशब्दात् मानमायादिग्रहः, एवमशुभयोगममिधायैतद्भेदमेव शुभ
॥२५५॥ मतिदिशनाह-'अतो विपरीतः शुभ' इति, अतः-अशुभयोगात् काययोगादेः विपरीतो-विसदृग् शुभ इति शुभो योगः,IK
॥२५५॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org