________________
श्रीतत्त्वार्थ
हरि० ५ अध्या०
R परिणाम
मेदाः
अविद्यमानप्रथमारम्भः आदिमांश्च प्रथमारंभवान् चशब्दः परिणामयत्तोपसङ्ग्रहार्थः,'तत्रानादिरित्यादि (१३७-१२) तत्र तयोरनाद्यादिमतोः परिणामयोरनादिःपरिणामः,केष्वित्याह-अरूपेषु अमूर्तेष्वित्यर्थः,तानेवाह-धर्माधर्माकाशजीवेषु इष्टितः क्रियापदाध्याहाराद्भवति, इह चशब्दोऽनुक्तसमुच्चयार्थः,कालतोऽनादिरेव तत्तद्, धर्मद्रव्यपरिणामोऽनादिरसंख्येयप्रदेशवचं लोकाकाशव्यापित्वं गन्तृगत्यपेक्षाकारणत्वमगुरुलघुत्वमित्यादिः अधर्मद्रव्यस्य तु स्थास्थित्यपेक्षकारणत्वं अगुरुलघुत्वादीति, आकाशस्यानन्तप्रदेशत्वमवगाहदातृत्वमित्यादि, जीवस्य तु सिद्धत्वादि, कालस्य तु वर्त्तना इति ।। रूपिष्वमिधातुमाह
- रूपिष्वादिमानिति ॥५-४३॥ सूत्रम् ॥ परिणाम इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'रूपिषु' इत्यादि (१३७-१४) रूपिषु पुना रूपस्पर्शरसगन्धवत्सु द्रव्येषु दुतिलक्षणेषु आदिमान् परिणामः, प्रवाहानादित्वेऽपि देशाधनियतत्वात्, सचानेकविधोऽनेकप्रकारः स्पर्शपरिणामादिः | स्पर्शरसगन्धवर्णादिः, तद्यथा-स्पर्शोऽष्टविधःशीतादिःशीततरशीततमादिश्च,रसः पंचविधः तिक्तादिः तिक्ततरादिश्च, गन्धो द्विविधः
-सुरमिः दुरमिःसुरमितर दुरमितरादिः, शुक्लादिः वर्णः पंचविधः शुक्लतरादिश्च, आदिशब्दाद् द्वयणुकादिः संघातमेदलक्षणः शन्दा|दिश्चेत्येवमनेकाकारः, अयं हि द्रव्यत्वमूर्त्तत्वसवाद्यनादित्वेऽपि न धर्मादिस्थित्यनादित्ववच्च लब्धेन तथा वृत्तिरित्यादिमानिति ।
योगोपयोगी जीवेष्विति ।। ५-४४ ॥ सूत्रम् ॥ | आदिमान् परिणाम इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'जीवेष्वि' (१३८-२) त्यादिना, जीवेष्वरूपिष्वपि प्रकृत्या तथाऽनादिरूपसम्बन्धाद्रूपिष्वपि सत्सु, किमित्याह-योगोपयोगावित्यत्र योजनं योगः-पुद्गलसम्बन्धादात्मनो वीर्यपरिणतिविशेषः,
॥२५३॥
॥२५॥
with
Ramaina
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org