________________
श्रीतत्वार्थ
हरि० ५ अध्या०
कालस्य द्रव्यता
न धर्मादीनि जीवान्तान्येवेति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'एके त्वाचार्या' इत्यादिना (१३६-१६) अन्ये नयवादान्तरप्रधानाः पुनराचार्या व्याचक्षते विशेषेण आचक्षते व्याचक्षते-व्यक्तीकुर्वन्ति, कथमित्याह-कालोऽपि द्रव्यमिति कालो-In |ऽपि, चशब्दोऽपिशब्दार्थः, विशिष्टमर्यादावच्छिन्नो तृतीयद्वीपसमुद्रान्तर्वर्ती मनुष्यादीनां बालत्वादिपरिणामहेतुः, बलाकाप्रसवे गर्जितध्वनिवत् , पापविरतौ वा प्रबोधवत् , द्रव्यमिति तथा तस्य परिणतिहेतुतया द्रवणात् , तथा चागमः-'अद्धासमय'त्ति, एकग्रहणं सूत्रान्तरपरिग्रहार्थ, यथोक्तं-"कोऽयं भंते ! कालत्ति बुच्चइ ?, गोअमा! जीवा चेवे "त्यादि, एके इत्थमाचक्षते, अन्ये । त्वन्यथेति, वर्तनादीनां सर्वत्र भावादिति ।
सोऽनन्तसमय इति ॥५-३९ ।। सूत्रम् ॥ । नैकोऽपरिणाम्येवेति सूत्रसमुदायार्थः। अवयवार्थ त्वाह--'स चैर्षे'त्यादिना (१३६-१८) स इति प्रक्रान्तपरामर्शः, एप इत्यनन्तरसूत्रोक्तः, चशब्दोऽनुकर्षणे, कालः प्रस्तुतः, किमित्याह-अनन्तसमयो नियमत एव, तत्रेत्यादि तत्रेति तस्मिन् काले एक एवापरासंपृक्तः वर्तमानसमयस्तत्प्रदेशः, अतीतानागतयोः पुनः समययोरतीतादित्वेन न वर्तमानवत् तद्भावेन अतीतादित्वविरोधात् तत्कार्याप्रसङ्गाच्च, अस्ति चान्येन स व्यवहारः सिद्धेभ्योऽतीतसमयराशेरसंख्येयगुणत्वेनाभिधानादिति । अचाहेत्यादि, (१३७-१) उक्तं भवता इहैव गुणपर्यायवद्रव्यमित्येतत् , तत्र गुणाः पर्यायव्यतिरिक्ताः, द्रव्ये के गुणा इति, पर्यायोपलक्षणमेतत् , अत्रोच्यते समाधिः
द्रव्याश्रया निर्गुणा गुणा इति ।। ५-४० ॥ सूत्रम् ।।
॥२५॥
॥२५१॥
For Personal Private Use Only