________________
श्री तत्त्वार्थहरि०
५ अध्या०
॥२५० ॥
Jain Education International
| लक्षणा आहोश्विलक्षणतोऽपि व्यापकात् स्वरूपसिद्धिरिति, अत्रोच्यते लक्षणतोऽपि व्यापकात् प्रसिद्धिः, तदुच्यते व्यापकं लक्षणं, ननूत्पादव्ययधौव्ययुक्तं सदित्युक्तमेव, सत्यमेतदपि अन्यथोच्यते द्रव्योपाध्यनन्तधर्मत्वाद्वस्तुन इति । तदाहगुणपर्यायवद्रव्यमिति ।। ५-३७ ।। सूत्रम् ।।
उभयवदिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'गुणानि' त्यादिना (१३६ - १२ ) संख्येयादिसंख्यया समाख्यायमानत्वा| गुणाः- शक्तेर्विशेषरूपास्तान् लक्षणतो वक्ष्यामः 'द्रव्याश्रया निर्गुणा' इत्यत्र, पर्यायलक्षणमाह- भावान्तरं संज्ञान्तरं च पर्याय इति, भावादन्यो भावो भावान्तरं, समभिरूढनयाभिप्रायेणेदं न शकनपूर्दा रणाद्यर्थान्तरं, संज्ञान्तरं च तद्वाचकं इन्द्राद्येव, किमित्याह - पर्याय इति, आह / क इत्थमनयोर्विशेषः १. उच्यते तचतो न कश्चित् द्रव्यस्यैव ह्येते परिणतिविशेषाः, न | त्वेभ्यः केचिदन्ये गुणपर्याया इति, केवलं सहभाविनो गुणाः क्रमभाविनः पर्याया इति व्यवस्था/ अन्यथा रूपादीनामेवासौ परि णाम इति निश्चयः, तदुभयमित्यादि, तदुभयं व्यवहारनिश्चयात्मकं यत्र विद्यत इति यस्मिन् समानपरिणामरूपेऽस्ति तद् द्रव्यं भवति, एतदेव स्पष्टयति-गुणपर्याया इत्यादिना, गुणपर्याया यथोक्तलक्षणा अस्य द्रव्यस्य सन्ति, न जातुचित् निष्परिणामं द्रव्यं भवति, विकारलक्षणा चेयं षष्ठी यवानां धाना इति, यथा तेषामेव तथाभवनात् अस्मिन् वा सतीति परिणामयोरा| धाराधेयविवक्षायामेकं विज्ञानमित्यादि, एवं गुणपर्यायवदिति, एवं धर्मादिष्वप्यमूर्त्तधर्मापेक्षया योजनीयमिति । न चैतानि पंचैव द्रव्याणीत्याह
कालश्चेत्येक इति ।। ५- ३८ ।। सूत्रम् ।।
For Personal & Private Use Only
द्रव्य लक्षणं
॥२५०॥
www.jainelibrary.org