________________
श्रीतार्थ
हरि०
५ अध्या०
HomosomiasomamaDiminaCom
"जघन्यगुणवर्जाना"मिति, एकगुणस्निग्धैकगुणरूक्षवर्जानां स्निग्धानां रूक्षेण सह रूक्षाणां स्निग्धेन सह सम्बन्धो भवतीति साम-III
ादुक्तं, अथ तुल्यगुणयोरिति प्रस्तुतानन्तरवचनोऽथशब्दः,तुल्यगुणयोरिति सदृशगुणयोः स्निग्धाद्यधिकरणयोः द्वयादिगुणा-I7 बंधाभावे पेक्षया किमेकान्तेनैव प्रतिषेधो बन्धस्येति,अत्रोच्यते समाधिः-न जघन्यगुणानामिति यदुक्तं एतदधिकृत्योच्यते, किमित्याह
गुणसाम्ये सहशानामिति ।। ५-३४ ॥ सूत्रम् ॥ | यथैव स्निग्धरूक्षाणां जघन्यगुणानां न बन्धस्तथैव गुणसाम्ये सदृशानां न बन्ध इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह| 'गुणसाम्ये सतीत्यादिना (१३५-६) गुणाः-स्निग्धरूक्षाः तेषां साम्यं-समत्वं, गुणानां साम्यं गुणसाम्यं तस्मिन् गुणसाम्ये || तुल्यसंख्यत्वे सति, सदृशाना बन्धो न भवति, पूर्वापवादविशेषसमर्थनार्थमेतत् , न जघन्यगुणानामित्यभिधाय तद्विषयमपवाद| भेदं वा चोद्यमानं तमुदाहरणेनाह-'तबथे 'त्यादिना, तुल्यगुणस्निग्धस्य-यादिगुणस्निग्धादेरनन्तगुणस्निग्धावसानस्य तुल्य| गुणस्निग्धेनैवंभूतेनैव,एवं तुल्यगुणरूक्षस्य द्वयादिगुणरूक्षादेरनन्तगुणरूक्षावसानस्य तुल्यगुणरूक्षेणैवंभूतेनैव बन्धो न, भवति तु येषां च प्रकर्षापकर्षवृत्त्या गुणसाम्यं संख्यया तत्सदृशा एव भवन्तीति तदित्थमेतत् समपेक्षत इति प्ररूपयति, सूरिस्तु विशिष्टार्थप्रतिपच्यर्थमेतदिति चेतस्याध्यायाह-अत्रोच्यत इत्यादि, गुणवैषम्ये सदृशानां बन्धो भवतीति,स्निग्धरूक्षतया वैषम्ये सति सदृशानामुपसंख्यया बन्धो भवतीति गुरवः,यतः किलायमागमः "णिद्धस्स णिद्वेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएण । गिद्धस्स लुक्खेण उवेइ बंधो, जहण्णवजो विसमो समो वे" ॥१॥ त्यादि, अन्ये तु व्याचक्षते-स्नेहगुणवैषम्य एव संख्यया रूक्षगुणवैषम्येन सदृशानामिति न स्नेहादिमात्रगुणनिबन्धनमेव सादृश्यमिति 'अत्रा
msdomini
॥२४७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org