________________
बन्धविधिः
बन्धः स्कन्धपरिणामहेतुः कथं भवतीति, अत्रोच्यतेश्रीतत्त्वार्थ-I0 हरि०
स्निग्धरूक्षत्वाइन्ध इति ॥५-३२ ॥ सूत्रम् ॥ ५ अध्या०
नेतरेतरानुवेधादिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'स्निग्धरूक्षयो रित्यादिना (१३४-१६) स्नेहो हि गुणः स्पर्शाख्यः, तथा रूक्षोऽपि, एकः स्निग्धः अपरो रूक्षस्तयोः स्निग्धरूक्षयोः पुद्गलयोः परमाण्वोः परमाणूनां वा बहूनां, द्विवचनोपन्यासस्तु सर्वलघुस्कन्धदर्शनार्थः, स्पृष्टयोरिति संयुक्तयोस्तथैकपरिणामात्, किमित्याह-यन्धो भवति रूक्षस्नेहविशेषात् , श्लेषमष्टपबन्धवत् , चिक्कणलक्षणः परिणामः स्नेहस्तद्विपरीतो रूक्ष इति,घटादिप्रत्यक्षसिद्धकार्यगम्योऽयमित्यविषयः सुधियां विवादस्य,तदिह देशादिसंयोगविकल्पाः हस्तिव्यापादनोक्तौ प्राप्ताप्राप्तविकल्पतुल्या इति न तेष्वास्था विधेया इति ।। 'अत्राहे त्यादि (१३४-१७) | सम्बन्धग्रन्थ एव, किमेष एकान्त इति, किमिति प्रश्नार्थः, एष इत्यनन्तरयोगार्थाभिसम्बन्धः एकान्तो नियमः, यदुत सर्वस्य स्निग्धस्य सर्वेण रूक्षेण बन्धः १, इत्यत्रोच्यते
न जघन्यगुणानामिति ॥ ५-३३ ।। सूत्रम् ॥ अतिप्रसक्तस्य विधेरपपवादः सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'जघन्यगुणाना'मित्यादिना (१३४-१९) अणवो ह्येक
गुणस्निग्धादिक्रमेण संख्येयासंख्येयानन्तगुणस्निग्धा भवन्ति, एवं रूक्षा अपि, जघने भवो जघन्यः जघन्य इव अन्त्यो निकृष्ट ॥२४६॥ इत्यर्थः, जघन्यश्चासौ गुणश्च जघन्यगुणः जघन्यगुणः स्निग्धो येषां ते जघन्यगुणस्निग्धाः, तेषां, जघन्यगुणरूक्षाणां च
परस्परेण अन्योऽन्यं खतः परतश्च बन्धो न भवति, तथाखभावत्वादिति ॥'अत्राहे त्यादि (१३५-१) उक्तं भवता अनन्तरसूत्रं
||२४६॥
El
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org