SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ५ अध्या० | येणावच्छिद्यमानमिहास्तीति गृह्यते तदेव परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यम् , इदानीमयमुभयपर्याययुगपदर्पणायां भवत्यवक्तव्यः,इतरत्र तु भेदप्रधानव्याख्यायां द्विवचनादिनिर्देशः समीचीनः,जातिविवक्षा,जातेरेकत्वादेकवचनसिद्धिरिति । एवमेते ||NI सप्तभंगी त्रयः सकलादेशा भाष्येण च विभाषिताः,सम्प्रति विकलादेशविभावनार्थमाह भाष्यकार:-'देशादेशेन विकल्पयितव्य'मिति (१३३-९) इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः, पर्यायास्तिकमिति नपुंसकलिङ्गप्रक्रान्ते विकल्पयितव्यमित्याह, किं पुनः कारणं भाष्यकृता सकलादेशत्रयवदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति, अयमभिप्रायो भाष्यकारस्य लक्ष्यतेसकलादेशसंयोगाच्चतुर्णा निष्पत्तिरिति सुज्ञानाः, तत्राद्यद्वितीयविकल्पसंयोगे चतुर्थविकल्पनिष्पत्तिः, स्यादस्ति च नास्ति चेति, प्रथमतृतीयविकल्पसंयोगे पश्चमविकल्पनिष्पत्तिः, स्यादस्ति चावक्तव्यं चेति, द्वितीयतृतीयविकल्पसंयोगे पष्ठविकल्पनिष्पत्तिः, | स्यान्नास्ति चावक्तव्यं चेति, आद्यद्वितीयतृतीयविकल्पसंयोगे सप्तमविकल्पनिष्पत्तिः, स्यादस्ति च स्यान्नास्ति चावक्तव्यं चेति, | तत्रायेषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकलीकृतं खण्डश आदिश्यते, तदाह-'देशादेशेने त्यादि, सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन, देशेन विकल्पनीयं व्याख्येयं धादितच्चमित्येवं विकल्पचतुष्टयस्यापि ग्रहणमिति । 'अत्राहे त्यादि (१३४-१०) सम्बन्धग्रन्थः, अत्र प्रस्तावे आह परः-उक्तं भवता, किमित्याह-सङ्घातभेदेभ्यः स्कन्धा उत्पद्यन्त इत्येतत् , किमित्याह-तत् किं संयोगमात्रादेव सङ्घातो भवति,स्कन्ध इत्ययः, आहोश्विदस्त्यत्र संयोगे कश्चित् प्रतिविशेष इति, अत्रोच्यते इत्यादि, सति संयोगे परस्परसंघट्टलक्षणे बद्धस्यैक |॥२४५॥ त्वपरिणतिमतः संघातो भवति, स्कन्धः, नाबद्धस्य, संयोगमात्रात् स्कन्धासिद्धेः, अत्राह-'अथे'त्यादि, अथेत्यानन्तर्यार्थः, ॥२४५॥ Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy