SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीतार्थ हरि० ५ अध्या० ॥२४३॥ Jain Education International | सदित्यसदिति चैकेन रूपेण, किं तर्छुभयेनैकेनार्पितं तच्च तथा अवाच्यं तद्विवक्षितस्यार्थस्य शब्दस्य चासम्भवाद् अतः स्यादवक्तव्यमिति, एते त्रयः सकलादेशाः यदा यस्ति तन्नामकं वस्त्वेकेन गुणरूपेणोच्यते, गुणिनां गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावात्, | तदिह धर्माद्येकं वस्तु सत्यादेरेकस्य गुणस्वरूपेणाभेदोपचारेण विवक्षां प्रापितो यया निरंशं सकलं व्याप्तुमिष्यते, विभागनिमि | तस्य प्रतियोगिनो गुणान्तरेऽस्यासत्वादेस्तत्रानाश्रयणात्, तत्र द्रव्यार्थाश्रयं सच्चगुणमाश्रित्य तदा स्यात् सन्नित्युच्यत इति सकला| देशः, गुणद्वयं तु गुणिनो भागवृत्तिरिति भवत्युभयात्मकत्वात् गुणिनः, न स्वेको गुणभागवृत्तिरिति एवं स्यान्नित्यमित्यपि बाच्यं, | तथा पर्यायनयाश्रयमसत्त्वमनित्यत्वमङ्गीकृत्य स्यादसत् स्यादनित्यमिति भवति, युगपद्भावादुभयगुणयोरप्रधानतायां शब्देनामि|धेयायां तथाऽभिधेयतयाऽनुमतत्वात् स्यादवक्तव्यमिति, एतेन विकलादेशा अपि संयोगभंगाः स्यादस्ति च नास्ति चेत्येवमादयो द्रष्टव्याः, एवमेतान् द्रव्यास्तिकनयानुसारतोऽपि भावयन्नाह - 'पर्यायास्तिकस्ये' त्यादि, (१३४-३) पर्यायास्तिकस्य प्राग्नि| रूपितशब्दार्थस्य, पर्यायास्तिकग्रहणं धर्म्मविषयस्याद्वादप्रतिपत्त्यर्थ, धर्माश्च रूपित्वसच्वमूर्त्तत्वादिरूपाद्धर्मिणः पारिणामिनो नात्यन्तं व्यतिरिक्ता इत्यतस्तत् प्रतीत्य कयाचिद्धर्मिविषयत्वमपि द्रव्यपर्याययोः संसृष्टत्वाद्, एवमेव च द्रव्यास्तिकपर्यायास्तिकनयद्वय| मात्रवस्तुसमाश्रयः सिद्धयति स्याद्वादः, अन्यथा पर्यायनयाश्रय एव च विकल्पसप्तकेन सकलवस्तुव्यापी स्याद्वादो, न चैतदेवमिति, तत् सतो भवनं भावः, तद्भावलक्षणः परिणामः, स चानेकरूपः क्रमयुगपद्भावी धर्मद्वये यावत्, तत्र जीवपुद्गलापेक्षया तथा | तथा गतिनिबन्धकत्वं तथा सत्त्वामूर्त्तत्त्वासंख्येयप्रदेशात्मकत्वादिति, स एषोऽस्य सद्भावपर्यायाश्रयः, चित्रा धर्मादिद्रव्यवृत्तिः पुन| रसद्भाव पर्याय इति, वर्त्तमानकालावधयो वा सद्भावपर्यायाः, अतीतानागताश्च पर्याया इति, परस्परपर्यायाऽपेक्षयाऽनन्तधर्मात्मकाः For Personal & Private Use Only अर्पितानर्पिते ॥२४३॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy