________________
श्री तत्वार्थहरि०
५ अध्या०
॥२४२॥
Jain Education International
तदिहास्त्यंशगोचरं मातृकापदं, इहैव पररूपनास्तित्वागोचरं मातृकापदमसत्, तस्येति चेत् रूपेण नास्तित्वादिति, एवं शेषेष्वपि | भावना कार्या, सर्वसंगतिविशेषाणां सर्वहेतुत्वात्, धर्मास्तिकायो मातृकापदं, स एव च सर्वस्थितिविशेषः प्रसवव्यावृच्यपेक्षया मातृकापदम् एवं च द्विवचनबहुवचने अपि भावनीये, असद् असती असंतीत्यपि तदुपाध्यभेदतोऽदुष्टमेव, नयत्वं च तथा तदंशप्रतिपच्येति । उक्तो द्विभेदोऽपि द्रव्यास्तिकः, पर्यायास्तिकमधिकृत्याह-उत्पन्नास्तिकस्य प्राग् निरूपितशब्दार्थस्य, किमि| त्याह-उत्पन्नं चेत्यादि (१३४ - १) उत्पन्नं वा वर्त्तमानक्षणस्थित्येव सत् एवमेअतीतानागतयोर्विनष्टानुत्पन्नत्वेनासत्वात्, वैकं धर्मास्तिकायादि, उत्पन्ने वा द्वे वस्तुनी सती, उत्पन्नानि वा बहूनि सन्ति, भिन्नान्येव, इत्थं चैतद्, अन्यथाऽभावः, एतेन पर्यायास्तिको व्याख्यातः, तत्त्वतो वस्तुन एव पर्यायत्वात्, अत एवैतन्मतानुसारिप्रलापो यदुत क्षणस्थितिधर्म्माभाव एव नाश | इति, विपक्षे बाधामाह-परपरिकल्पितं च सत् उत्पन्नं वा स्यात् अनुत्पन्नं वा ?, आद्यपक्षेऽस्मत्पक्षसिद्धिः, उत्तरपक्षेऽसत्वं, तदाह'अनुत्पन्नं चेत्यादि, अनुत्पन्नं च-अप्रादुर्भूतं वान्ध्येयादि, अनुत्पन्ने वा खरविषाणशशविषाणौ, अनुत्पन्नानि वा खकुसुमभेकजटाभारकूर्मरोमादीनि किमित्याह-असत्, सर्वमिदमसत्, सल्लक्षणस्योत्पादस्याभावात् एवमुक्तनीत्या धर्मादि द्रव्यं स्यात् सत् स्यात् असत्, स्यानित्यं स्यादनित्यमिति तत्त्वेन सूचितं, इह द्रव्यार्थनयप्रधानतायां पर्यायगुणभावेन च प्रथमभङ्गः, प्राधान्यं बेह शब्देन विवक्षितत्वात् सदादीनां शब्दानुपात्तस्य त्वर्थतो गम्यमानस्य गुणभावः, पर्यायनयप्रधानतायां द्रव्यनयगुणभाभावेन च द्वितीयः, ' अर्पित ' इत्यादि (१३४-३) अनेन तु तृतीयः स्यादवक्तव्यमिति, युगपद्वस्त्वात्मन्यस्तित्वनास्तित्वाभ्यामर्पितस्य विवक्षिते क्रमेण चानुपतीते क्रमेणाक्रमेण चाभिधातुमविवक्षिते पूर्वभङ्ग (म) प्राप्तः यतश्चैवमतो न वाच्यं कथमित्याह
For Personal & Private Use Only
अर्पिता
नपिं
॥२४२॥
www.jainelibrary.org