SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ R'तदित्य'मित्यादि,उत्पादच व्ययश्चोत्पादव्ययौ, समस्यैकत्वेन निर्दिष्टौ पर्यायत्वात् , ध्रुवतीति ध्रुव-शाश्वतं तद्भावो धौव्यं, चः। श्रीतत्वार्थ नित्यलक्षणं हरि०समुचाएत समुच्चये,एतत्रितययुक्तं तत एतद्योगः, एतत्समुदितमेव किमित्याह-सतो लक्षणं सलक्ष्यतेऽनेन,तेन वियुक्तस्य सत्ताऽयोगात् , ५ अध्याय मन वन्ध्यासुते उत्पादव्ययौ, न च तद्रहितं तत्र ध्रौव्यमपीति तदसचं, अथवा समाध्यर्थयुजेर्युक्तं समाहितं त्रिस्वभावं सत्, एते च त्रयः स्वभावाः, न त्वेमियुक्तिमन्यत् , एतदाह-'यदुत्पद्यत' इत्यादि, यद्धर्मादि उत्पद्यते प्रयोगविश्रसाभ्यां तथा तथाऽभूतप्रादुर्भावतस्तद्गत्यादिनिबन्धनावध्यभावेन, एवं यद्व्येति विनिवर्त्तते अधिकृतोत्पादपूर्वरूपेण, अन्यथा तद्गत्याद्ययोगात्, |एवं यच्च नुवं-शाश्वतं तदुभयाधारभावेन, निराधारयोस्तयोरसंभवात् ,नामृदाधाराः कपालादयो घटविनाशो वा,तथा तद्बुद्धिसिद्वयोरित्यत आह-तत् सदिति, किमुक्तं भवति?-तत् सदित्यस्य ध्वनेविषयः, सद्विद्यमानमित्यर्थः, व्यतिरेकमाह-अतोऽन्यदसदिति अत उत्पादादिमतोऽन्यदुत्पादादिरहितं किमित्याह-असदिति, असदित्यस्य ध्वनेर्विषयः, असदविद्यमानमित्यर्थः। 'अत्राहे 'त्यादि (१३३-३) सम्बन्धग्रन्थः, अत्रावसरे परः प्रश्नयत्यव्युत्पन्नः, गृहीमस्तावदेतल्लक्षणं उत्पादादिलक्षणं| सदित्येवमनुमन्यामहे, तावच्छब्दः क्रमावद्योतनार्थः इतिशब्दो हेत्वर्थः, यस्मात्सत्तस्मादिदं तुवाच्यं, किमित्याह-'तत् कि'|मित्यादि, तत् सत् किं नित्यं स्थिर आहोश्चिद् अनित्यम्-अस्थिरमिति प्रपच्छ, निबन्धनं तु नित्यावस्थितान्यरूपाणीति वचनं, इहारूपिग्रहणापिष्वनित्यतापच्या सम्मोहः, अत्रोच्यते अव्युत्पन्नचोदकचोदितेसमाधिः॥२३८॥ तद्भावाव्ययं नित्यमिति ॥५-३०॥ सूत्रम् ॥ | ॥२३८॥ -- यदुत्पादादियुक्त तनित्यानित्यमेवेति व्याप्त्या नित्यांशलक्षणमेतदिति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'यत् सत्' इत्या Jan Education r ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy