SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सतो लक्षणं र्भाविमौ, कल्पितत्वेऽस्येत्यादि (१३१-६) कल्पितत्वेऽस्य संसारापवर्गभेदस्याभ्युपगते, किमित्याह-निःस्वभावतया कारश्रीतत्वार्थ णेन तथा संसारादिरूपतयाऽनुपलब्धिप्रसङ्गात् , कल्पितं अपारमार्थिको, न किंचित् , न भाव इतिकृत्वा, अथ मा भूदेष दोष हरि० | इति सस्वभाव एव कल्पितोऽभिधीयत इत्याह-सस्वभावत्वे तु पुनरस्य अधिकृतभेदस्येति वर्तते, किमित्याह-एकान्तध्रौव्या५अध्या० भावः, कुत इत्याह-तस्यैव तथा भवनादिति आत्मन एव संसारापवर्गावस्थाभेदभावेन वृत्तः, संसारिस्वभावस्यापवर्गस्वभावत्वाद्विरोध इत्याशक्कापोहायाह-तत्तत्स्वभावतयेत्यादि, तस्य-आत्मनस्तत्स्वभावतया, किमित्याह-विरोधाभावात् , न हि स्वभावः पर्यनुयोज्यः, इतश्चैतदेवं इत्याह-तथोपलब्धिसिद्धेः तथा संसार्यादिभेदेन उपलब्धिसिद्धेः, तिर्यगादिभेदेनेत्यभिप्रायः, भ्रान्तोऽयमिति विभ्रमनिरासायाह-'तभ्रान्तत्व' इत्यादि (१३१-९) तस्या उपलब्धेर्धान्तत्वे, किमित्याह-प्रमाणाभावः, वाङ्मात्रेणाभिधानात् , ' योगिज्ञाने 'त्यादि, योगिज्ञानप्रमाणाभ्युपगमे तु तद्धान्तत्वविषये, किमित्याह--अभ्रान्तस्तदवस्थाभेदः, योग्ययोगिनोरवस्थाभेदसिद्धेः, प्रस्तुतवस्तुनो दाया॑यवाह-'इत्थं चैतदि 'त्यादि, (१३१-१०) इत्थं चैतदभ्युपगन्तव्यं, अन्यथैवमनभ्युपगम्यमाने, किमित्याह-न मनुष्यादेर्देवत्वादि, इत्येवं यमादिपालनानर्थक्यं आदिशब्दानिय| मपरिग्रहः, आगमासारतामाह-'एवं चे'त्यादिना, एवं सति 'अहिंसासत्यास्तेयब्रह्मचर्यपरिग्रहा यमाः' 'शौचसंतो षतपःस्वाध्यायेश्वरप्रणिधानानि नियमा' इत्यागमवचनं वचनमात्रमर्थशून्यमित्यर्थः, 'एव 'मित्यादि, एवमेकान्ताधौ॥२३५॥ काव्येऽपि, प्रकृत्येकक्षणस्थितिधर्मणीत्यर्थः,न मनुष्यत्वादिनाऽव्ययवतः आत्मनो देवत्वादिनोत्पाद इति वर्त्तते, कुत इत्याह-सर्वथा । तदभावापत्तेः 'न तत्र किंचिद् भवति,न भवत्येव केवल मिति वचनात्,एवं 'तत्त्वत' इत्यादि,तत्त्वतः परमार्थेनाहेतुकमव ॥२३५॥ Jan Education International For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy