________________
श्रीतचार्य
हरि०
५ अध्या०
॥२३४॥
DOGTX
Jain Education International
| स्पर्शरसगन्धशब्दा अपि एवं बुद्धिपरिणामभाज एवं निजोपलम्भनैरुपलभ्यन्त इति, ' अचाक्षुषास्त्वि 'त्यादि (१३० - ११) ये पुनरचाक्षुषा द्वयणुकादयोऽनन्ताणुकपर्यवसानाः सूक्ष्मास्ते' यथोक्ता 'दिति यथाऽभिहितात् संघाताद् भेदात् संघातभेदाच्च त्रि| विधात् कारणादुत्पद्यन्त इति, सूक्ष्मबादरत्वं च परिणामभेद एवेति । 'अत्राहे 'त्यादि (१३० - १३) सम्बन्धग्रन्थः, धर्मादीनि | द्रव्याणि सन्तीत्येवं कथं गृह्यत इति १, नन्वेषां गत्याद्युपकारेणानुमानमस्तित्वे तत् कुतः सन्देह इति ?, उच्यते, तत्तथाऽनुमिताः, | अनुमानेनानुमितमेव कथं गृह्यत इति तु कथं निश्चीयत इति विशेषार्थः प्रश्नः, अत्रोच्यत इति समाधिः, तदाह-लक्षणत इति, | इहापि सामान्याभिधानात् सन्देहान आह-किं च सतो लक्षणमिति किं पुनः सतो लक्षणं ?, लक्ष्यते येन सदिति, अत्रोच्यतेउत्पादव्ययधौव्ययुक्तं सदिति ।। ५-२९ ।। सूत्रम् ॥
उत्पादादिमदेव सदिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-' यदिहे 'त्यादिना (१३१ - २) प्रवचनगर्भसूत्रमेतदित्यैहिकामुष्मिकव्यवस्थानिबन्धनतया व्याचष्टे - यस्मादिह लोके मनुष्यत्वादिना पर्यायेण, आदिशब्दात्तिर्यगादिपरिग्रहः, अव्ययतः अविनाभावतः, मनुष्यत्वादिरूपस्यैवेत्यर्थः, कस्येत्याह- आत्मनो जीवस्य देवत्वादिना पर्यायेण आदिशब्दान्नारकादिपरिग्रहः, | उत्पादः प्रादुर्भाव इति, अत उत्पादव्ययधौव्ययुक्तं सदिति । इहैव विपक्षे बाधामाह - 'एकान्तध्रुवे ' इत्यादिना, एकान्तभ्रुवे | सर्वथाऽप्रच्युतानुत्पन्न स्थिरैकस्वभावे आत्मनि तत्तथैकस्वभावतया तस्य आत्मनस्तथा मनुष्यत्वादिना प्रकारेण एकस्वभावतया कारणेन अवस्थाभेदानुपपत्तेः देवादिभेदानुपपत्तेरित्यर्थः, 'एवं चे 'त्यादि, एवं चावस्थाभेदाभावे सति किमित्याह - संसारापवर्गभेदाभावः अवस्थाभेदानान्तरीयकत्वादनयोः, तथाहि संसरणं संसारः, अपवर्जनमपवर्ग इति, अवस्थाभेदग
For Personal & Private Use Only
CHOCDIETOLDOG
सतो लक्षणं
॥२३४॥
www.jainelibrary.org