________________
श्रीतचार्थ
हरि० ५ अध्या०
अणुः चाक्षुषाश्च
0 एतदेवाह-अन्यस्य परमाणोः संघातेन अन्यतो भेदेन तत एव स्कन्धादिति, एवं व्यणुकादिष्वपि भावनीयं ।। 'अबाहे'त्यादि | (१३०-७) सम्बन्धग्रन्थः, अथ परमाणुरुक्तलक्षणः कथमुत्पद्यत इति, अत्रोच्यते
भेदादणुरिति ॥५-२७ ॥ सूत्रम् ॥ प्रकारद्वयप्रतिषेधोऽस्य समुदायार्थः । अवयवार्थ त्वाह-'भेदे'त्यादि (१३०-९) भेदादेव स्कन्धविचटनरूपात् परमाणुरुत्पद्यते, तथा तद्भावापत्या, न संघातात् नापि संघातभेदात् , परमाणुत्वायोगादिति । आह-नित्योऽयमुक्तमि(इ)ति, तथा तत् कथं उत्पद्यते , तद्भावाव्ययतया, द्रव्यार्थादेशतस्तु तथैव तत् , उत्पद्यते, तथा स्कन्धरूपं परित्यजतः, एकरूपतापत्त्याऽन्यथाऽभूतेरिति, यद्येवं न भेदादेवास्य जन्म, पूर्वाशादित्यागतोऽप्यन्यथाऽभूतेः साधुत्वेनैव, तथा भवनात् , व्यवहारत इयमुत्पादादि|चिन्ता, निश्चयतस्तु सर्वमेव नित्यमिति, यथोक्तं-" सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थाना ॥१॥"दिति
भेदसंघाताभ्यां चाक्षुषा इति ॥ ५-२८ ॥ १३०-१० ॥ सूत्रम् ॥ अधिकारात् सम्बद्धमेव, अचाक्षुषस्कन्धविषय एव संघातादिभिरुत्पत्तिकम इति सूत्रसमुदायार्थः । अवयवार्थ त्याह-'भेदसंघाताभ्या'मित्यादिना, (१३०-११) पश्यतीति चक्षुः चक्षुष इमे गोचरीभूता इति, 'तस्येद 'मित्यन् चक्षुर्लाह्याः चाक्षुषाःबादरपरिणामवन्तः प्रयोगविश्रसाजनितात् सांगत्यादपि स्कंधनात् स्कन्धाः, एते संघातभेदाभ्यामेवात्पद्यन्त इति नियमः, न | त्वयं नियमो भेदसंघाताभ्यामुत्पन्नाः सर्वे चाक्षुषा इति, चक्षुर्ग्रहणाच समस्तेन्द्रियपरिग्रहः, पश्यति-उपलभत इति चक्षुः, एवं
॥२३३॥
॥२३३॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org