SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० ५ अध्या० स्कन्धोत्पादः स्पर्शापेक्षया, कार्यलिङ्गश्चेति बादरघटादिकार्यदर्शनान्यथाऽनुपपत्तिगम्य इति, अन्ये तु कारणमेवेति पठन्ति, तत्त्वसाम्प्रतिकमिति गुरवः, भेदस्य कार्यतयाऽपि तदन्त्यत्वावधारणानुपपत्तेः, पाठेऽपि कारणं अन्त्यमेवेति केचिद् व्याचक्षते, एतदपि यत्किंचिद् , भेदस्य कार्यस्यापि तदन्त्यत्वादिति,'तत्रे'त्यादि, अणवः-परमाणवः अबद्धाः,परस्परेणासंयुक्ता इत्यर्थः, स्कन्धास्तु | स्कन्धाः पुनः बद्धा एव बन्धपरिणाम एव स्कन्धत्वोपपत्तेरिति । 'अत्राहे त्यादि (१२९-१३) कथं पुनरेतद्वैविध्यमणुस्कन्धलक्षणं भवतीति प्रश्नः, अत्रोच्यते समाधिः, स्कन्धास्तावत्, किमित्याह सङ्घातभेदेभ्य उत्पद्यन्त इति ॥५-२६ ॥ सूत्रम् ॥ | इत्थं भवतीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'सङ्घात 'इत्यादिना (१२९-१६) संघातात् केवलात् , एवं भेदात् | केवलादेव, संघातभेदाद्वा मिश्रादिति, एवं एभ्यः संघातादिभ्यः कारणेभ्यः स्कन्धा उक्तलक्षणाः, किमित्याह-उत्पद्यन्ते, | किम्भूता इत्याह-द्विप्रदेशादयः, तद्यथेत्यादि प्रकटार्थमासूत्रपरिसमाप्तेः, नवरं अनन्तानामनन्तानन्तानां च प्रदेशानां परमाणूनां संघातात्तु तथाविधैकपरिणामलक्षणात् तावत्प्रदेशा इति तावन्तः प्रदेशा येषु ते तावत्प्रदेशाः, यथाऽनन्तानन्तप्रदेशानां संघातः तावदनन्तानन्तप्रदेश इति, तथा एषामेवानन्तरोदितस्कन्धानां अनन्तानन्तप्रदेशान्तानां भेदादेकपरमाण्वा| दिरूपात् द्विप्रदेशपर्यन्ताः भूयांसः स्कन्धा भवन्ति, तथातथैकाण्वादिविगमे तत्तन्न्यूनाः, परापरस्कन्धभेदोत्पत्तेरिति, त एव | चेत्यादि, तृतीयादिविकल्पभावना त एव च स्कन्धाः संघातभेदाभ्यां एकसामयिकाभ्यां, भिन्नकालाभ्यां न, किमित्याह |-द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते, यस्मिन्नेव समये द्वयणुकस्कन्धादेकोऽणुर्भिद्यते तदैवापरः संहन्यते तेनेत्येकसामयिकत्वं, ॥२३२॥ ॥२३२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy